________________
उत्तरज्झयणाणि - २
अनयोर्व्याख्या - पञ्चाश्रवा हिंसादयस्तत्र प्रवृत्तः । त्रिभिः 'प्रस्तावान्मनो - वाक्कायैः' अगुप्तोऽनियन्त्रितो मनोगुप्त्यादिरहित इत्यर्थः । षट्सु पृथिवीकायादिष्वविरतोऽनिवृत्तः 'तदुपमर्दकत्वादेरिति गम्यम्' । तीव्रा उत्कटा आरम्भाः सावद्यव्यापारास्तत्परिणतः तदात्मतां गतः । क्षुद्रः सर्वेषामहितैषी कृपणो वा । सहसा गुणदोषानविचार्य प्रवर्तते इति साहसिक श्चौरादिवदित्यर्थः । नरः पुमान् 'उपलक्षणत्वात् स्त्र्यादिर्वा' ॥ निद्धंधसोऽत्यन्तमैहिकामुष्मिकाषायशङ्काविकलः परिणामोऽध्यवसायो यस्य स तथा । 'निस्संसो 'त्ति नृशंसो निस्तृशो जीवान् हिंसन् न मनागपि शङ्कते । अजितेन्द्रियः । एते च योगाश्च काय - वाग्-मनोव्यापार एतद्योगाः पञ्चाश्रवप्रवृत्तत्वादयस्तैः समायुक्तः कृष्णलेश्यामेव 'तुरेवार्थे' परिणमेत् तद्द्रव्यसाचिव्येन, तथाविधद्रव्यसम्पर्कात् स्फटिकवत् तदुपरञ्जनात् तद्रूपतां भजेत् । उक्तं हि—
I
८१०
"कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ॥१॥
एतेन पञ्चाश्रवप्रवृत्तादीनां भावे एव कृष्णलेश्यायाः सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तम् । यो हि यत्सद्भावे भवति स तस्य लक्षणम्, यथौष्ण्यमग्नेः । एवमुत्तरत्रापि लक्षणत्वभावना कार्या । इति गाथाद्वयार्थः ॥२१-२२॥
नीललेश्यालक्षणमाह
ईसा - अमरिस- अतवो अविज्ज माया अहीरिया । गिद्धी पओसे य सढे पमत्ते रसलोलुए ॥२३॥ सायगवेसए य आरंभाविरओ खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो नीललेसं तु परिणमे ॥२४॥
अनयोर्व्याख्या-ईर्ष्या परगुणासहनम् । अमर्षश्चात्यन्ताभिनिवेशः । अतपश्च तपोविपर्ययः‘अमीषां समाहारः' । 'अविज्ज'त्ति अविद्या कुशास्त्ररूपा । माया वञ्चनात्मिका । अह्नीकता चासदाचारविषया निर्लज्जता । गृद्धिरभिकाङ्क्षा 'विषयेष्विति गम्यते' । प्रदोषश्च प्रद्वेषः । मत्वर्थीयलोपादभेदोपचाराद् वा सर्वत्र तद्वान् जन्तुरेव ज्ञेयः । अत एव शठोऽलीकभाषी । प्रमत्तः प्रकर्षेण जात्यादिमदावलिप्तः । तथा रसलोलुपो रसलम्पटः ॥ सातं सुखं तद्गवेषकश्च कथं मम सुखं स्यादिति बुद्धिमान् । आरम्भात् प्राण्युपमर्दादावविरतोऽनिवृत्तः । तथा क्षुद्रः सकपटी। साहसिकः साहसवान् । एतद्योगसमायुक्तो नरः स्त्री वा नीललेश्यां तु परिणमेदिति गाथायुग्मार्थः ॥ २३-२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org