________________
चतुस्त्रिंशं लेश्याध्ययनम्
८०९ __ अनयोक्ख्या -यथा क्रकचस्य करपत्रस्य स्पर्शः, गोर्जिह्वा गोजिह्वा तस्याः, तथा शाको वृक्षविशेषस्तत्पत्राणां 'स्पर्श इति प्रक्रमः' अतोऽप्येतत्प्रकारादपि स्पर्शादनन्तगुणोऽतिशायितया यथाक्रममाद्यानां तिसृणां लेश्यानामप्रशस्तानां स्पर्शोऽतिकर्कश इति हृदयम् ।। यथा बूरस्य वनस्पतिविशेषस्य स्पर्शः, नवनीतस्य म्रक्षणस्य, यथा वा शिरीषकुसुमानां स्पर्शोऽतोऽपि स्पर्शादनन्तगुणोऽतिसुकुमारतया यथाक्रमं प्रशस्तलेश्यानां तिसृणामप्यन्त्यानां 'स्पर्श इति प्रक्रमः' ॥ इहोक्तेषु दृष्टान्तेषु यथा वर्णादितारतम्यं तथा लेश्यानां स्वस्थानेऽपि वर्णादिवैचित्र्यं ज्ञेयमिति गाथाद्वयार्थः ॥१८-१९।। परिणाममाह
तिविहो व नवविहो वा सत्तावीसइविहेक्कसीओ वा ।
दुसओ तेयालो वा लेसाणं होइ परिणामो ॥२०॥ व्याख्या-त्रिविधो नवविधो वा सप्तविंशतिविधो वा 'विधशब्दस्य सम्बन्धाद्' एकाशीतिविधो वा त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । इह च त्रिविधो जघन्य-मध्यमोत्कृष्टभेदेन, नवविधो यदेषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणनात् । एवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वमेकाशीतिविधत्वं त्रिचत्वारिंशदधिकद्विशतविधत्वं च भावनीयम् । उपलक्षणं चैतद्, एवं तारतम्यचिन्तायां सङ्ख्यानियमस्याभावात्, बहुबहुविधभेदत्वादेतत्सङ्ख्यानाञ्च । तथा च प्रज्ञापना-"किण्हलेसा णं भंते ! कतिविधं परिणामं परिणमति ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा इक्कासीइविहं वा तेयालब्भहियदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमति । एवं जाव सुक्कलेसा" इति ॥२०॥ कृष्णलेश्यालक्षणमाह
पंचासवप्पवत्तो तीहिं अगुत्तो छसु अविरओ य । तिव्वारंभपरिणओ खुद्दो साहस्सिओ नरो ॥२१॥ निद्धंधसपरिणामो निस्संसो अजिइंदिओ । एयजोगसमाउत्तो किण्हलेसं तु परिणमे ॥२२॥
१. कृष्णलेश्या भदन्त ! कतिविधं परिणामं परिणमति ? गौतम ! त्रिविधं वा नवविधं वा सप्तविंशतिविधं वा एकाशीतिविधं वा त्रिचत्वारिंशदभ्यधिकद्विशतविधं वा बहुं वा बहुविधं वा परिणाम परिणमति । एवं यावत् शुक्ललेश्या ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org