________________
८०८
उत्तरज्झयणाणि-२ अतोऽप्यनन्तगुणो रसस्तु कापोताया ज्ञातव्योऽतिकषाय इति हृदयम् । १२। यथा परिणतं परिपक्वं यदाम्रकं तद्रसः, पक्वकपित्थस्यापि यादृशो रसोऽतोऽप्यनन्तगुणो रसस्तु तैजस्या ज्ञातव्योऽम्लः किञ्चिन् मधुरश्चेति तात्पर्यम् । १३। वरवारुणी प्रधानमदिरा तस्या वा रसः, विविधानामासवानां पुष्पप्रभवमद्यानां यादृशको रसः, मधु मद्यविशेषो मैरेयं सरकस्तयोः समाहारे मधु-मैरेयं तस्य वा रसोऽतो वरवारुणीरसात् पद्मायाः 'प्रक्रमाद् रसः' 'परकेण'त्ति अनन्तगुणत्वात् तदतिक्रमेण 'वर्तते इति गम्यम्' अयं च किञ्चिदम्लकषायो मधुरश्चेति भावनीयम् । १४। खरं पिण्डखजूरादि, मृद्धीका द्राक्षा एतद्रसस्तथा क्षीररसः, खण्डं चेक्षुविकारः शर्करा च तत्प्रभवा तद्रसो वा 'यादृश इति शेषः' अतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तमधुरः । १५। इति गाथाषट्कार्थः ॥१०-१५॥ गन्धमाह
जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । इत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरहिकुसुमगंधो गंधवासाण पिस्समाणाणं ।
इत्तो वि अणंतगुणो पसत्थलेसाण तिण्हं पि ॥१७॥ अनयोक्ख्या -यथा गवां मृतकं मृतकशरीरं कलेवरं तस्य गन्धः, श्वा सारमेयं तस्य मृतकस्य वा, यथाऽहिः सर्पस्तन्मृतकस्य 'गन्ध इति सम्बन्धः' 'सूत्रत्वान्मृतकशब्दे कलोपः' । अतोऽप्येतत्प्रकारादपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानामप्रशस्तानामशुभानां कृष्ण-नील-कापोतानां 'गन्ध इति प्रक्रमः' । इह लेश्यानामप्रशस्तत्वं गन्धाद्यशुभत्वादिति ॥ यथा सुरभिकुसुमानां जाति-चम्पकादीनां पुष्पाणां गन्धः सुरभिकुसुमगन्धः, तथा गन्धाश्च कोष्ठपुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासास्तेषां पिष्यमाणानां चूर्ण्यमानानां वा यथा गन्धोऽतोऽप्येवंविधादपि गन्धादनन्तगुणोऽतिसुगन्धितया प्रशस्तलेश्यानां तिसृणामपि तैजसी-पद्म-शुक्लानां 'गन्ध इति प्रक्रमः' । इहापि प्रशस्तत्वं गन्धस्य शुभत्वादिति गाथाद्वयार्थः ॥१६-१७॥ स्पर्शमाह
जह करगयस्स फासो गोजिब्भाए य सागपत्ताणं । इत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥१८॥ जह बूरस्स वि फासो नवणीयस्स व सिरीसकुसुमाणं । इत्तो वि अणंतगुणो पसत्थलेसाण तिण्हं पि ॥१९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org