________________
चतुस्त्रिंशं लेश्याध्ययनम्
८०७ त्सन्निभा । शुकः कीरस्तस्य तुण्डं मुखं चञ्चूः तच्च प्रदीपश्च तन्निभा । तेजोलेश्या तु वर्णतो रक्तेति भावः । ७। हरितालो धातुविशेषस्तस्य भेदो द्विधाभावस्तत्साशा भेदे हि वर्णप्रकर्षों दृश्यते । हरिद्रा प्रसिद्धा तस्या भेदस्तत्सन्निभा । शणो धान्यविशेषोऽशनो बीयकस्तयोः कुसुमं तन्निभा पद्मलेश्या तु वर्णतः पीतेति भावः । ८। शङ्कः प्रतीतोऽङ्को रत्नविशेषः, कुन्दं कुन्दपुष्पं तत्सङ्काशा । क्षीरं दुग्धं तस्य पूरः प्रवाहस्तत्समप्रभा । रजतं रूप्यम्, हारो मुक्ताकलापस्तत्सङ्काशा शुक्ललेश्या 'तुः पूरणे' वर्णतः शुक्लेति तत्त्वम् । ९। इति गाथाषट्कार्थः ॥४-९॥ रसमाह
जह कडुयतुंबगरसो निबरसो कडुयरोहिणिरसो वा । इत्तो वि अणंतगुणो रसो उ किण्हाइ नायव्वो ॥१०॥ जह तिगडुयस्स रसो तिक्खो जह हत्थिपिप्पलीए वा । इत्तो वि अणंतगुणो रसो उ नीलाइ नायव्वो ॥११॥ जह तरुणअंबयरसो तुवरकविट्ठस्स वा वि जारिसओ । इत्तो वि अणंतगुणो रसो उ काऊइ नायव्वो ॥१२॥ जह परिणयंबगरसो पक्ककविट्ठस्स वा वि जारिसओ । इत्तो वि अणंतगुणो रसो उ तेऊए नायव्वो ॥१३॥ वरवारुणीइ व रसो विविहाण व आसवाण जारिसओ । महु-मेरयस्स व रसो इत्तो पम्हाइ परएणं ॥१४॥ खज्जूर-मुद्दियरसो खीररसो खंड-सक्कररसो वा ।
इत्तो वि अणंतगुणो रसो उ सुक्काइ नायव्वो ॥१५॥ आसां व्याख्या-'यथेति सादृश्ये' ततो यादृक् कटुकतुम्बकरसः, निम्बरसः, कटुका चासौ रोहिणी च तरुविशेषत्वक् कटुकरोहिणी तद्रसो वा, इतोऽपि कटुकतुम्बरसादेरनन्तगुणो रसास्वादः कृष्णायाः कृष्णलेश्याया ज्ञातव्योऽतिकटुक इत्यर्थः । १०। यथा यादृशस्त्रिकटुकस्य शुष्ठि-मिरिच-पिप्पलया रसस्तीक्ष्णो यथा हस्तिपिप्पल्या गजपिप्पल्या वा रसोऽतोऽप्यनन्तगुणो रसस्तु नीलाया [ज्ञातव्यः] अतितीक्ष्ण इति भावः । ११। यथा तरुणमपरिपक्कं यदाम्रकमाम्रफलं तद्रसः, तुवरं सकषायमर्थादपक्वं यत् कपित्थं कपित्थफलं तस्य वा 'अपिः पूरणे' यादृशः 'रस इति प्रक्रमः',
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org