________________
८०६
उत्तरज्झयणाणि-२ वर्णमाह
जीमूयनिद्धसंकासा गवल-रिटुगसंनिभा । खंजंजण-नयणनिभा किण्हलेसा उ वण्णओ ॥४॥ नीलासोगसंकासा चासपिच्छसमप्पभा । वेरुलियनिद्धसंकासा नीललेसा उ वण्णओ ॥५॥ अयसीपुप्फसंकासा कोइलच्छविसंनिभा । पारेवयगीवनिभा काउलेसा उ वण्णओ ॥६॥ हिंगुलुयधाउसंकासा तरुणाइच्चसंनिभा । सुयतुंड-पईवनिभा तेउलेसा उ वण्णओ ॥७॥ हरियालभेयसंकासा हलिद्दाभेयसन्निभा । सणासणकुसुमनिभा पम्हलेसा उ वण्णओ ॥८॥ संखंक-कुंदसंकासा खीरपूरसमप्पभा ।
रयय-हारसंकासा सुक्कलेसा उ वण्णओ ॥९॥ आसां व्याख्या-'जीमूयनिद्ध' त्ति 'प्राकृतत्वात्' स्निग्धश्चासौ सजलत्वेन जीमूतश्च मेघः स्निग्धजीमूतस्तद्वत् सं सम्यक् काशते वर्णतः प्रकाशते इति संकाशा तत्सदृशीत्यर्थः। तथा गवलं माहिषं शृङ्गम्, रिष्टो द्रोणकाकोरिष्टकं फलविशेषो वा तत्सन्निभा । 'खंज'त्ति खञ्जनं स्नेहात्यक्तशकटाक्षघर्षणोद्भूतम्, अञ्जनं च कज्जलम्, नयनं चक्षुरिहोपचारात् तदेकदेशस्तन्मध्यवर्ती कृष्णसारस्तन्निभा तत्समाना कृष्णलेश्या 'तुर्विशेषार्थे' वर्णतो वर्णमाश्रित्यैव, न रसादीन्येवमग्रेऽपि ४। नीलश्चासावशोकश्च वृक्षविशेषो नीलाशोकस्तत्सङ्काशा रक्ताशोकव्यवच्छेदार्थं नीलग्रहणम् । चासः पक्षिविशेषस्तस्य पिच्छं पक्षं तत्समप्रभा । स्निग्धो दीप्तो वैडूर्यो मणिविशेषस्तत्सङ्काशा तत्सदृशी 'पदविपर्ययः प्राग्वत्' नीललेश्या तु वर्णतो नीलेत्यर्थः ।५। अतसी धान्यविशेषस्तत्पुष्पसङ्काशा । कोकिलः परभृतस्तस्य छविस्तत्सन्निभा । पारापतः पक्षिविशेषस्तस्य ग्रीवा कण्ठस्तन्निभा कापोतलेश्या तु वर्णतः किञ्चित् कृष्णा किञ्चिच्च लोहितेति भावः । तथा च प्रज्ञापना-'काऊलेसा काललोहिएणं वण्णेणं वणिज्जइ' त्ति । ६। हिङ्गुलुकः प्रतीतो धातुः पाषाणविशेषस्तत्सङ्काशा । तरुणो नवोदित आदित्यस्त
__१. कापोतलेश्या काललोहितेन वर्णेन वर्ण्यते इति ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org