________________
चतुस्त्रिंशं लेश्याध्ययनम्
अत्र पूर्वाध्ययने कर्मप्रकृतय उक्तास्तत्स्थितिश्च लेश्यावशत इत्यतस्तदभिधायकं चतुस्त्रिंशमध्ययनमारभ्यते ।
सज्झयणं पवक्खामि आणुपुवि जहक्कमं । छण्हं पि कम्मलेसाणं अणुभावे सुणेह मे ॥१॥
व्याख्या - लेश्याभिधायकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि प्रकर्षेण तासामेव नाम-वर्णादिनिरूपणात्मकेनाभिधास्ये । आनुपूर्व्या यथाक्रममिति च प्राग्वत् । तत्र षण्णामपि षट्सङ्ख्यानामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत 'मे' मम 'कथयत इति शेषः ' ॥१॥
एतदनुभावाश्च नामादिप्ररूपणात एव स्युरिति तत्प्ररूपणाय द्वारमाहनामाई वण्ण-रस-गंध-फास-1 -परिणाम-लक्खणं ।
ठाणं ठिई गई च आउं लेसाणं तु सुणेह मे ॥ २ ॥
व्याख्या - नामानि वर्ण-रस- गन्ध-स्पर्श-परिणाम-लक्षणमिति पदषट्कस्य समाहारः, तत्र परिणामो जघन्यादिः, लक्षणं पञ्चाश्रवासेवादि । स्थानमुत्कर्षापकर्षरूपम् । स्थितिमवस्थानकालम् । गतिं च नरकादिकाम्, यतो या अवाप्यते । आर्या तस्मिन्नवशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते । लेश्यानां 'तुः पूरणे' 'सुणेह मे 'त्ति प्राग्वत् ॥२॥
नामान्याह
किण्हा नीला य काऊ य तेऊ पम्हा तहेव य । सुक्कलेसा य छट्टा उ नामाइं तु जहक्कमं ॥३॥
व्याख्या-स्पष्टा ॥३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org