________________
८०४
उत्तरज्झयणाणि-२ 'तुः पूरणे' आयुःकर्मणोऽन्तर्मुहूर्तं जघन्यिका ॥ उदधिसदृशनाम्नामर्थात् सागरोपमानां विंशतिः कोटीकोट्यो नाम-गोत्रयोरुत्कृष्टाऽष्टमुहूर्ता जघन्यिकेति गाथापञ्चकार्थः ॥१९२३॥ मूलप्रकृतीनामुत्कृष्टादिस्थितिरुक्तोत्तरप्रकृतीनां बृहट्टीकातोऽवसेया ॥ सम्प्रति भावमाह
सिद्धाणणंतभागो अणुभागा हवंति उ ।
सव्वेसु वि पएसग्गं सव्वजीवे अइच्छियं ॥२४॥ व्याख्या-सिद्धानाममन्तभागवतित्वात् तदनन्तभागोऽनुभागा रसविशेषा भवन्ति। 'तुः पूरणे' अयं चानन्तभागोऽनन्तसङ्ख्य एवेत्यनेनैषामानन्त्यमेवेत्थमुक्तम् । तथा सर्वेष्वपि 'प्रक्रमादनुभागेषु' प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रदेशाग्रम्, 'सव्वजीवे अइच्छिय'ति सर्वजीवेभ्यो भव्याभव्येभ्योऽतिक्रान्तम्, ततोऽपि तेषामनन्तगुणत्वेनाधिकत्वादिति ॥२४।। उपसंहारमाह
तम्हा एएसि कम्माणं अणुभागा वियाणिया ।
एएसिं संवरे चेव खवणे य जए बुहे ॥२५॥ त्ति बेमि ॥ व्याख्या-यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषामनन्तरोक्तानां कर्मणां ज्ञानावरणादीनामनुभागान् 'उपलक्षणात् प्रकृतिबन्धादींश्च' विज्ञाय विशेषेण कटुकविपाकबन्धत्वलक्षणेन भवहेतुत्वलक्षणेन वाऽवबुध्येतेषां कर्मणां संवरे अनुपातानामुपादाननिरोधे 'चैवेति समुच्चयावधारणे' क्षपणे चोपात्तानां निर्जरे 'जए' त्ति यतेतैव यत्नं कुर्यादेव बुधस्तत्त्वावगमवान् । इति ब्रवीमीति पूर्ववत् ॥२५।। ग्रं० १६० अ० ७॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनं समाप्तम् ॥३३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org