________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
८०३ गहणं करेमाणे किं तिदिसिं करेइ जाव छद्दिसिं करेइ ? गोयमा ! सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सिय छद्दिसिं करेइ । बेंदिया णं भंते ! पुच्छा ? गोयमा ! बेंदिया जाव पंचिंदिया नियमा छद्दिसिं करेइ" इत्यादि। तच्च गृहीतं सत् केन सह, कियत्, कथं वा स्याद् ? इत्याह-'सव्वेसु'त्ति 'सुब्ब्यत्ययात् सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः, सर्वं ज्ञानावरणादि न त्वन्यतरदेव । आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येनादाय तान्येवाध्यवसायविशेषात् पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति । सर्वेण 'गम्यमानत्वात् प्रकृति-स्थित्यादिना प्रकारेण', बद्धं अनन्ययोन्यसम्बद्धतया हि शृङ्खलावयवानामिव क्षीरोदकवद् वात्मप्रदेशैः श्लिष्टं तदेव बद्धकमिति ॥१८॥ कालमाह
उदहीसरिनामाणं तीसई कोडिकोडीओ। उक्कोसिया ठिई होइ अंतमुहुत्तं जहन्निया ॥१९॥ आवरणिज्जाण दुन्हं पि वेयणिज्जे तहेव य । अंतराए य कम्ममि ठिई एसा वियाहिया ॥२०॥ उदहिसरिसनामाणं सत्तरं कोडिकोडीओ । मोहणिज्जस्स उक्कोसा अंतोमुहुत्तं जहन्निया ॥२१॥ तित्तीसा सागरोवम उक्कोसेणं वियाहिया । ठिई उ आउकम्मस्स अंतमुहुत्तं जहन्निया ॥२२॥ उदहिसरिसनामाणं वीसई कोडिकोडीओ ।
नाम-गोयाण उक्कोसा अट्ठमुहत्ता जहन्निया ॥२३॥ आसां व्याख्या-उदधिः समुद्रस्तेन सदृग् नाम येषां तान्युदधिसदृग्नामानि सागरोपमाणि तेषां त्रिंशत् कोटीकोट्य उत्कृष्टा स्थितिर्भवति । तथा मुहूर्तस्यान्तरन्तर्मुहूर्तम्, मुहूर्तमपि न्यूनमित्यर्थो जघन्यिका 'प्रक्रमात् स्थितिः' ॥ केषाम् ? इत्याह-आवरणीययोरन्यत्रैतव्यपदेशाश्रवणात् ज्ञानावरणीय-दर्शनावरणीययोर्द्वयोरपि, वेदनीये तथैव चान्तराये च कर्मणि स्थितिरेषा व्याख्याता । इह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्तमाना सूत्रकृतोक्ता । अन्ये तु द्वादशमुहूर्तमानामेव तां वेदनीयस्येच्छन्ति, तदभिप्रायं न विद्मः ॥ उदधिसदृशनाम्नां सप्ततिकोटीकोट्यो मोहनीयस्योत्कृष्टाऽन्तर्मुहूर्तं जघन्यिका स्थितिः ।। त्रयस्त्रिंशत् सागरोपमाणि 'आर्षत्वात् सुपोर्लुक्' उत्कृष्टेन व्याख्याता स्थितिः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org