________________
८०२
उत्तरज्झयणाणि-२ चानुभागलक्षणं चतुःस्थानिक-त्रिस्थानिकरसमित्यर्थः । अतः प्रकृत्यभिधानात् उत्तरमित्यूचं शृणु ॥१६॥ प्रदेशाग्रमाह
सव्वेसिं चेव कम्माणं पएसग्गमणंतगं ।
गंठियसत्ताईयं अंतो सिद्धाण आहियं ॥१७॥ व्याख्या सर्वेषामपि न पुनः केषांचिदेव कर्मणाम् 'चः पूरणे, एवोऽपिशब्दार्थः' ज्ञानावरणादीनां प्रदेशाग्रं परमाणुपरिमाणमनन्तकम्, अनन्तपरमाणुनिष्पन्नत्वात् वर्गणानाम् । तच्चानन्तकं ग्रन्थिगसत्त्वा ये ग्रन्थि यावद् गत्वाऽपि तद्भेदाकरणेन कदाचिदपि नोपरिष्टाद् गन्तारस्ते चाभव्या एव तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसत्त्वातीतम् । तथाऽन्तर्मध्ये सिद्धानामाख्यातं कथितम् 'अर्हदादिभिरिति गम्यते' । सिद्धेभ्यो हि कर्माणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वात् । अतः सङ्ख्यामपेक्ष्य सिद्धान्तर्वति तदनन्तकमुक्तम् । एकसमयग्राह्यकर्मपरमाण्वपेक्षं चैतत्सङ्ख्यानमिति ॥१७॥ क्षेत्रमाह
सव्वजीवाण कम्मं तु संगहे छद्दिसागयं ।
सव्वेसु वि पएसेसु सव्वं सव्वेण बद्धगं ॥१८॥ व्याख्या-सर्वजीवानामेकेन्द्रियाद्यशेषभेदानां कर्म ज्ञानावरणादि 'तुः पूरणे' सङ्ग्रहे सङ्ग्रहक्रियायां 'योग्यं स्यादिति शेषः' कीदृशं सद् ? इत्याह-'छद्दिसागय'त्ति षण्णां दिशां समाहारः षड्दिशं तत्र गतम् । तत्र चतस्रो दिशः पूर्वाद्या ऊर्ध्वाधो दिग्द्वयमिति षट् स्युरिति । यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्मपुद्गलास्ते रागादिस्नेहयोगत आत्मनि लगन्ति । न क्षेत्रान्तरावगाढा भिन्नदेशस्थानां तद्भावायोग्यत्वात् । यथा ह्यग्निः स्वदेशस्थान् प्रायोग्यपुद्गलानात्मसात् करोत्येवं जीवोऽपि स्वदेशस्थान् कर्मपुद्गलानिति । किञ्चिद् विदिग्व्यवस्थितमपि कर्म आत्मा गृह्णाति, परमल्पत्वान्न विवक्षितमिति । तता क्षेत्रप्रस्तावे यद् दिगभिधानं तत् तासामाकाशादभेदज्ञापनार्थं तद्भेदाप्रतीतेः । तथा षड्दिग्गतत्वं द्वीन्द्रियादीन् पञ्चेन्द्रियान्तानेवाधिकृत्य नियमेन ज्ञेयम् । एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः-"ऐगिदिया णं भंते ! तेयाकम्मपुग्गलाणं
१. एकेन्द्रियो भदन्त ! तेजःकर्मपुद्गलानां ग्रहणं कुर्वन् किं त्रिदिशं करोति यावत् षड्दिशं करोति ? । गौतम ! स्यात् त्रिदिशं स्याच्चतुर्दिशं स्यात् पञ्चदिशं स्यात् षड्दिशं करोति । द्वीन्द्रियो भदन्त ! पृच्छा ? गौतम ! द्वीन्द्रियो यावत् पञ्चेन्द्रियो नियमात् षड्दिशं करोति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org