________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
८०१
२९, अशुभ ३०, दुर्भग ३१, दुःस्वर ३२, अनादेय ३३, अयशोऽकीति: ३४, एताश्चाशुभनारकत्वादिनिबन्धनत्वेनाशुभाः । अत्र च बन्धन - सङ्घाते शरीरेभ्यः, वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्तसङ्ख्यातिक्रमः ॥१३॥
गोत्रकर्माह
गोयं कम्मं दुविहं उच्चं नीयं च आहियं । उच्चं अट्ठविहं होइ एवं नीयं पि आहियं ॥ १४ ॥
व्याख्या - गोत्रं कर्म द्विविधम् । 'उच्च'त्ति इक्ष्वाकुजात्याद्युच्चैर्व्यपदेशहेतुजातिकुलाद्यष्टविधबन्धहेतुत्वादष्टविधमुच्चैर्गोत्रं भवति । एवमित्यष्टविधमेव जातिमदाद्यष्टबन्धहेतुत्वान्नीचमपि नीचैर्गोत्रमपि नीचैर्व्यपदेशहेत्वाख्यातम् ॥१४॥
अनन्तरायं कर्माह
दाणे लाभे य भोगे य उवभोगे वीरिए तहा । पंचविहमंतरायं समासेण वियाहियं ॥१५॥
व्याख्या - दीयत इति दानं तस्मिन् । लभ्यत इति लाभस्तस्मिन् । सकृद् भुज्यते पुष्पाहारादीति भोगस्तस्मिन् । उप इति पुनः पुमर्भुज्यते भवनाङ्गनादीत्युपभोगस्तस्मिन् । तथा विशेषेण ईर्यते चेष्ट्यतेऽनेनेति वीर्यं तस्मिन् 'तथा समुच्चये' सर्वत्रान्तरायमिति प्रक्रमः' । ततो विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातम् । तत्र यत् सति चतुरे ग्रहीतरि देये च वस्तुनि तत्फलमवगच्छन्नपि न दाने प्रवर्तते तद् दानान्तरायम् । यत् पुनर्विशिष्टेऽपि दातरि याचननिपुणोऽपि याचको न लभते तल्लाभान्तरायम् । सति विभवादौ यद्वशादाहार-माल्यादि न भुङ्क्ते तद् भोगान्तरायम् । यस्योदयात् सदपि वस्त्रालङ्कारादि नोपभुङ्क्ते तदुपभोगान्तरायम् । यद्वशाद् बलवान् नीरुग् वयःस्थस्तृणमपि कुब्जीकर्तुं न क्षमते तद् वीर्यान्तरायमिति ॥१५॥
उक्तार्थनिगमनायोत्तरग्रन्थयोजनाय चाह—
एयाओ मूलपयडीओ उत्तराओ य आहिया ।
पसग्गं खित्त - काले य भावं च अदुत्तरं सुण ॥१६॥
व्याख्या - एता अनन्तरोक्ता ज्ञानावरणाद्या मूलप्रकृतयः । उत्तरा इत्युत्तरप्रकृतयः श्रुतावरणाद्याः ‘चशब्दः श्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वसूचकः' आख्याताः कथिताः । अथ प्रदेशाः परमाणवस्तेषामग्रं परिमाणं प्रदेशाग्रम् । क्षेत्र - कालौ च तत्र क्षेत्रमाकाशम्, कालो बद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः । भावं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org