________________
८००
उत्तरज्झयणाणि-२ लोपात्' सप्तविधं नवविधं वा कर्म नोकषायेभ्यो जातत्वान्नोकषायजम्, नो कषायवेदनीयमित्यर्थः । तच्च हास्यादिषट्केन सामान्यविवक्षयैकेन वेदेन सह सप्तविधम् । तेनैव षट्केन वेदत्रयेण नवविधं स्यादिति गाथाचतुष्टयार्थः ॥८-११॥ आयुःकर्माह
नेरइय-तिरिक्खाउं मणुस्साउं तहेव य ।
देवाउयं चउत्थं तु आउकम्मं चउव्विहं ॥१२॥ व्याख्या-'आयुः शब्दः प्रत्येकं योज्यते' नैरयिकाणां नवरकवासिनामायुर्येन तेषु ध्रियन्ते । तथा तिरश्चामेकेन्द्रियादीनामायुस्तिर्यगायुर्येन तेषु स्थितिः स्यात् । तथा मनुष्याणामायुर्मनुष्यायुस्तद्भावावस्थितिहेतुतया । देवानां भवनपत्यादीनामायुर्दैवायुर्येन तेष्ववस्थीयते चतुर्थं 'तुः पूरणे' । एवं चायुःकर्म चतुर्विधम् ॥१२॥ नामकर्माह
णामं कम्मं दुविहं सुहमसुहं वियाहियं ।
सुहस्स उ बहू भेया एमेव असुहस्स वि ॥१३॥ व्याख्या-नामकर्म द्विविधम, शोभते सर्वावस्थास्वनेनात्मेति शभं तद्विपरीतमशुभमाख्यातम् । शुभस्य तु बहवो भेदाः । एवमेवाशुभस्यापि, तदपि बहुभेदमिति भावः । तत्रोत्तरोत्तरभेदतः शुभनाम्नोऽनन्तभेदत्वेऽपि मध्यमापेक्षया सप्तत्रिंशद् भेदाः । तथाहि-मनुष्यगतिः १, देवगति: २, पञ्चेन्द्रियजातिः ३, औदारिक-वैक्रियाहारक-तैजसकार्मणशरीराणि ८, समचतुरस्त्रं संस्थानं ९, वज्रर्षभनाराचसंहननम् १०, औदारिकवैक्रियाहारकाङ्गोपाङ्गानि त्रीणि १३, प्रशस्तवर्ण-गन्ध-रस-स्पर्शाश्चत्वारः १७, मनुष्यदेवानुपूर्वी [द्वयं] १९, अगुरुलघु २०, पराघातम् २१, उच्छवासम् २२, आतपः २३, उद्योतः २४, प्रशस्तविहायोगति: २५, त्रसम् २६, बादरम् २७, पर्याप्तम् २८, प्रत्येकम् २९, स्थिरम् ३०, शुभम् ३१, सुभगम् ३२, सुस्वरम् ३३, आदेयम् ३४, यश:कीर्तिः ३५, निर्माणम् ३६, तीर्थकरनाम ३७ एताः सर्वा अपि शुभानुभावाच्छुभाः । तथा अशुभनाम्नोऽपि विमध्यमविवक्षया चतुस्त्रिंशद् भेदास्तद् यथा-नरकगतिः १, तिर्यग्गतिः २, एक-द्वि-त्रि-चतुरिन्द्रियजातिः ६, ऋषभनाराच-नाराच-अर्धनाराच-कीलिकासेवार्तसंहनानि ११, न्यग्रोधमण्डल-सादि-वामन-कुब्ज-हुण्डसंस्थानानि १६, अप्रशस्तवर्ण-गन्ध-रस-स्पर्शाः २०, नरकानुपूर्वी २१, तिर्यगानुपूर्वी २२, उपघातः २३, अप्रशस्तविहायोगतिः २४, स्थावर २५, सूक्ष्म २६, साधारण २७, अपर्याप्त २८, अस्थिर
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org