________________
।
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
७९९ नैरुक्तविधिना सातं सुखं शारीरं मानसं च 'इहोपचारात् तद्धेतुकर्मैवमुक्तम्' । असातं च तद्विपरीतमाख्यातं कथितम् 'अर्हदादिभिरिति गम्यम्' । सातस्यापि 'तुरप्यर्थः' बहवो भेदास्तद्धेतुभूतभूतानुकम्पादीनां बहुविधत्वात् । एवमेवेति बहव एव भेदा असातस्यापि, दुःख-शोकादितद्धेतुबहुभेदत्वात् ॥७॥ चतुर्थमाह
मोहणिज्जं पि दुविहं दंसणे चरणे तहा । दंसणे तिविहं वुत्तं चरणे दुविहं भवे ॥८॥ सम्मत्तं चेव मिच्छत्तं सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ मोहणिज्जस्स दंसणे ॥९॥ चरित्तमोहणं कम्मं दुविहं तु वियाहियं । कसायमोहणिज्जं च नोकसायं तहेव य ॥१०॥ सोलसविहभेएणं कम्मं तु कसायजं ।
सत्तविह नवविहं वा कम्मं च नोकसायजं ॥११॥ आसां व्याख्या-मोहनीयमपि द्विविधम्, दर्शने तत्त्वश्रद्धानरूपे चरणे चारित्रे तथा। कोऽर्थः ? दर्शनमोहनीयं चारित्रमोहनीयं च । तत्र दर्शने दर्शनविषयं मोहनीयं त्रिविधमुक्तम् । चरणे चरणविषयं मोहनीयं द्विविधं भवेत् ॥ दर्शनमोहनीयभेदानाहसम्यक्त्वं शुद्धदलिकरूपम्, यदुदये तत्त्वरुचिः स्यात् । 'चैवेति पूरणे' मिथ्यात्वमशुद्धदलिकरूपम्, यतस्तत्त्वेऽतत्त्वरुचिरतत्त्वे तत्त्वरुचिरुत्पद्यते । सम्यग्मिथ्यात्वमेव च शुद्धाशुद्धदलिकरूपम्, यत उभयस्वभावता जन्तोः स्यात् । इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाद् दलिकेष्वेतद्व्यपदेशः । एतास्तिस्त्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविषयस्य ॥ चरित्रमोहनीयभेदानाह-चरित्रमोहनं कर्म यतो हि कथञ्चनाहमेतत् प्रतिपद्ये इति श्रद्दधानोऽपि तत्फलादि जानन्नपि न तत् प्रतिपद्यते । तत् पुनर्द्विविधं व्याख्यातं 'श्रुतधरैरिति शेषः' । कषायाः क्रोधादयस्तद्रूपेण वेद्यतेऽनुभूयते यत् तत् कषायवेदनीयम्, 'चः समुच्चये नोकषायाः कषायसहवतिनो हास्यादयस्तद्रूपेण वेद्यते यत् तत् नोकषायवेदनीयम्, 'तथैवेति पूरणे' ॥ अनयोरपि भेदानाह-षोडशविधः षोडशप्रकारो यो भेदस्तेन कर्म क्रियमाणत्वात् 'तु' पुनः कषायेभ्यो जातं कषायजं कषायमोहनीयम् । षोडशविधत्वं चास्य क्रोध-मान-माया-लोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यानावरण-संज्वलनभेदतश्चतुर्विधत्वात् । तथा 'बिन्दु
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org