________________
७९८
उत्तरज्झयणाणि-२ इत्थं कर्मणो मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराह
नाणावरणं पंचविहं सुयमाभिणिबोहियं ।
ओहिनाणं तइयं मणनाणं च केवलं ॥४॥ व्याख्या-ज्ञानावरणं पञ्चविधं पञ्चप्रकारम् । तत् कथमिति? आवार्यभेदादेवेहावरणस्य भेद इत्यावार्यस्य ज्ञानस्यैव भेदानाह-श्रुतम् १, आभिनिबोधिकम् २, अविधज्ञानं तृतीयम् ३, मनोज्ञानम् ४, केवलम् ५, एतत्स्वरूपं च प्राग् मोक्षमार्गाध्ययन एवोक्तम् ॥४॥ द्वितीयावरणमाह
निद्दा तहेव पयला निद्दानिद्दा य पयलपयला य । तत्तो य थीणगिद्धी पंचमा होइ नायव्वा ॥५॥ चक्खुमचक्खुओहिस्स दरिसणे केवले य आवरणे ।
एवं तु नववियप्पं नायव्वं दंसणावरणं ॥६॥ अनयोर्व्याख्या-निद्रा सुखप्रतिबोधोच्यते १। तथैव निद्रावत्, किञ्चित् प्रचलत्यस्यामासीनोऽपीति प्रचला २। अतिशायिनी निद्रैव दुःखप्रतिबोधात्मिका निद्रानिद्रा ३। प्रचलैवातिशायिनी चङ्क्रम्यमाणस्य प्रचलाप्रचला ४। ततश्चात्यन्ताशुभानुभावतया ताभ्य उपरवर्तिनी स्त्याना संहतोपचितेत्यर्थः, ऋद्धिगुद्धिर्वा यस्यां सा स्त्यानद्धिः स्त्यानगृद्धिा, एतदुदये च वासुदेवार्धबलः प्रबलराग-द्वेषवांश्च जन्तुर्जायतेऽत एव दिनचिन्तितार्थसाधिन्यसौ पञ्चमी भवति ज्ञातव्या ५॥ "चक्खु'त्ति 'मकारोऽलाक्षणिकः' चक्षुश्चाचक्षुश्चावधिश्च 'समाहारे' चक्षुरचक्षुरवधि तस्य दर्शने, चक्षुषा रूपसामान्यग्रहणे, अचडूंषि शेषेन्द्रिय-मनांसि तदर्शने तेषां स्वस्वविषयसामान्यावबोधे, अवधिदर्शनेऽवधिना रूपिद्रव्याणां सामान्यग्रहणे । केवले च 'प्रक्रमात् केवलदर्शने' सर्वद्रव्य-पर्यायाणां सामान्यावबोधे । आवरणमेतच्चक्षुर्दर्शनादिविषयभेदाच्चतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वात्मकेन प्रकारेण 'तुः पूरणे' नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणमिति गाथाद्वयार्थः ॥५-६॥ तृतीयं कर्माह
वेयणियं पि य दुविहं सायमसायं च आहियं ।
सायस्स उ बहू भेया एमेवासायस्स वि ॥७॥ व्याख्या-वेदनीयं 'प्रक्रमात् कर्म' अपि च द्विविधं द्विभेदम्, स्वाद्यते इति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org