________________
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
इह पूर्वाध्ययने प्रमादस्थानान्युक्तानि । तैश्च कर्म बध्यते, तस्य च काः प्रकृतयः, कियती वा स्थितिः ? इत्याद्यभिधायकमिदं त्रयस्त्रिंशमध्ययनमारभ्यते
अट्ठ कम्माइं वोच्छामि आणुपुवि जक्कमं । जेहिं बद्धो अयं जीवो संसारे परिवत्तए ॥१॥
व्याख्या–अष्टेत्यष्टसङ्ख्यानि क्रियन्ते मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि तानि वक्ष्यामि । 'आणुपुव्वि' ति 'सुब्व्यत्ययाद्' आनुपूर्व्या, इयं च पश्चानुपूर्व्यादिरपि स्यादत आह-यथाक्रमं क्रमानतिक्रमेण पूर्वानुपूर्व्येत्यर्थः । यैः कर्मभिर्बद्धः श्लिष्टोऽयं जीवः संसारे परिवर्तते विविधपर्यायानुभवनेन परिभ्रमति ॥ १ ॥
प्रतिज्ञातमाह
नाणस्सावरणिज्जं दंसणावरणं तहा ।
वेयणिज्जं तहा मोहं आउकम्मं तहेव य ॥२॥ नामकम्मं च गोयं च अंतरायं तहेव य । एवमेयाई कम्माई अट्ठेव उ समासओ ॥३॥
व्याख्या-गाथाद्वयं स्पष्टम् । नवरं 'तथैव चेति सर्वत्रासदपि 'कर्म' इति योज्यम्' एवमेतान्यष्टकर्माणि समासतः संक्षेपेण । विस्तरतस्तु यावन्तो जन्तुभेदास्तान्यपि तावन्तीत्यनन्तान्येवेति भावः । अत्र च ज्ञान - दर्शनस्वभावोऽयमात्मेत्यन्तरङ्गत्वात् तयोरादितस्तदावरणग्रहणम् । तयोश्च समानेऽप्यन्तरङ्गत्वे विशेषज्ञानोपयोगे एव सर्वलब्धीनामाप्तेर्ज्ञानस्य प्राधान्यदादौ तदावरणस्य । तदनु सामान्योपयोगत्वाद् दर्शनावरणस्य । एवं शेषकर्मणामपि क्रमोपन्यासकारणानि बृहट्टीकातोऽवसेयानि ॥ २-३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org