________________
७९६
उत्तरज्झयणाणि-२ पासति"। तथा "कैवली णं भंते ! इमं रयणप्पहं पुढवि आगारेहिं [हेऊहिं] पमाणेहिं संठाणेहिं परिवारेहिं जं समयं जाणइ णो तं समयं पासति ? । हंता ! गोयमा ! केवली णं" इत्यादि । तथा अमोहनो मोहरहितो भवति । तथा निष्क्रान्तोऽन्तरायान्निरन्तरायः, अनाश्रवो हिंसादिनिवृत्तः, ध्यानं शुक्लरूपं तेन, समाधिः परमस्वास्थ्यं तेन युक्तो ध्यानसमाधियुक्तः, आयुषः 'उपलक्षणत्वान्नाम-गोत्र-वेद्यानां च' क्षय आयुःक्षयस्तस्मिन् सति मोक्षमुपैति प्राप्नोति शुद्धोऽपगतकर्ममल इति ॥१०९॥
मोक्षगतश्च यादृग् स्यात् तदाहसो तस्स सव्वस्स दहस्स मक्को जं बाहई सययं जंतमेयं । दीहामयं विप्पमुक्को पसत्थो तो होइ अच्चंतसुही कयत्थो ॥११०॥
व्याख्या-स मोक्षं प्राप्तो जन्तुः 'तस्स'त्ति 'सुब्ब्यत्ययात्' तस्माज्जाति-जरामरणादिरूपात् सर्वस्माद् दुःखान्मुक्तः पृथग्भूतः, यद् दुःखं बाधते पीडयति सततं निरन्तरं जन्तुं प्राणिनमेतं प्रत्यक्षमनुभवोपदर्शनमेतत् । दीर्घाणि स्थितितः 'प्रक्रमात् कर्माणि' तान्यामया इव रोगा इव नानाबाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तोऽत एव प्रशस्तः प्रशंसाहः । 'तो' इति ततो दीर्घामयविप्रमोक्षाद् भवत्यत्यन्तसुखी। तत एव च कृतार्थः कृतसकलकृत्य इति ॥११०॥
निगमयितुमाहअणाइकालप्पभवस्स एसो सव्वस्स दुक्खस्स पमुक्खमग्गो । वियाहिओ जं समुविच्च सत्ता कमेण अच्चंतसुही हवंति ॥१११॥
त्ति बेमि ॥ व्याख्या-अनादिकालप्रभवस्यानादिकालोत्पन्नस्यैषोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातः । यं दुःखप्रमोक्षमार्ग समुपेत्य सम्यक् प्रतिपद्य सत्त्वाः प्राणिनः क्रमेणोत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति । इति ब्रवीमीति प्राग्वत् ॥१११॥ ग्रं० ६५२ अ० १४॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनं समाप्तम् ॥३२॥
१. केवली भदन्त ! इमां रत्नप्रभां पृथ्वीमाकारैः [हेतुभिः] प्रमाणैः संस्थानैः परिवारैर्यस्मिन् समये जानाति, न तस्मिन् समये पश्यति ? हन्त गौतम ! केवली ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org