SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ७९५ जनयन्ति, अमनोज्ञां, वा किन्तु राग-द्वेषवत एव । न हि स्वरूपेण रूपादयो मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः, किन्तु प्रतिपन्नाध्यवसायवशादिति । ततो वीतरागस्य तन्निर्वर्तनहेत्वभावात् कथममी मनोज्ञताममनोज्ञतां वा निवर्तयेयुस्तदभावे च कथं विषयसेवनाक्रोशनादिप्रयोजनोत्पत्तिः ? इति ॥१०६।। उपसंहरन्नाहएवं ससंकप्प-विकप्पणासुं संजायई समयमुवट्ठियस्स । अत्थे च संकप्पयओ तओ से पहीयए कामगुणेसु तण्हा ॥१०७॥ व्याख्या-एवमुक्तप्रकारेण स्वस्यात्मनः सङ्कल्पा राग-द्वेष-मोहरूपाध्यवसायास्तेषां विकल्पनाः सर्वदोषमूलत्वादिपरिभावनाः स्वसङ्कल्प-विकल्पनास्तासूपस्थिस्योद्यतस्येति सम्बन्धः । किम् ? इत्याह-सञ्जायते उत्पद्यते, का ? इत्याह-'समय'ति 'आर्षत्वात्' समता माध्यस्थ्यम् । अर्थानिन्द्रियार्थान् रूपादीन् ‘चस्य भिन्नक्रमत्वात्' सङ्कल्पयतश्च यथा नैवैते पापहेतवः, किन्तु रागादय एवेति चिन्तयतस्तत इति समतायाः सकाशात् 'से' तस्य साधोः प्रहीयते प्रकर्षेण हानि याति । कोऽसौ ? कामगुणेषु तृष्णाभिलाषो लोभ इति यावत् । समतायां हि प्राप्तायामुत्तरोत्तरगुणस्थानावाप्त्या क्षीयत एव लोभ इति भावः ॥१०७॥ ततः कीदृशः सन् किं विधत्ते ? इत्याहसो वीयरागो कयसव्वकिच्चो खवेइ नाणावरणं खणेणं । तहेव जं दरिसणमावरेइ जं चंतरायं पकरेइ कम्मं ॥१०८॥ व्याख्या-स इति प्रहीणतृष्णो वीतराग-द्वेषो भवति । तथा कृतसर्वकृत्यो मुक्तेः प्राप्तप्रायत्वात् । क्षपयति ज्ञानावरणं वक्ष्यमाणं क्षणेन । तथैव यद् दर्शनं चक्षुर्दर्शनाद्यावरयति, यच्चान्तरायं दानादिलब्धेर्विघ्नं प्रकरोति कर्मान्तरायनामकमित्यर्थः । तदपि क्षपयतीति सम्बन्धः । स हि क्षपितमोहनीयोऽन्तर्मुहूर्तं विश्रम्य तद्विचरमसमये निद्राप्रचले देवगत्यादिनामप्रकृतीश्च क्षपयति । चरमसमये ज्ञानावरणादित्रयमिति भावः ॥१०८।। तत्क्षयाच्च कं गुणमाप्नोति ? इत्याहसव्वं तओ जाणइ पासए य अमोहणे होइ निरंतराए । अणासवे झाण-समाहिजुत्ते आउक्खए मोक्खमुवेइ सुद्धे ॥१०९॥ व्याख्या-सर्वं ततो ज्ञानावरणादिक्षयाज्जानाति विशेषरूपतया, पश्यति च सामान्यरूपतया । 'चशब्दो भिन्नविषयत्वात् पृथगुपयोगत्वं समुच्चिनोति' ततश्चैतेनानयोर्युगपदुपयोगत्वं निराकृतम् । तथा च प्रज्ञप्ति:-"जं समयं जाणति णो तं समयं १. यस्मिन् समये जानाति न तस्मिन् समये पश्यति । _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy