________________
७९४
उत्तरज्झयणाणि-२ व्याख्या-कल्पते स्वाध्यायादिक्रियासु समर्थो भवतीति कल्पो योग्यस्तम् 'अपेर्गम्यत्वात्' कल्पमपि किं पुनरकल्पं 'शिष्यादीनिति गम्यते' न इच्छेन्नाभिलषेत् सहायलिप्सुर्ममाङ्गविश्रामणादिसाहाय्यं करिष्यतीत्यभिलाषुकः सन् । तथा पश्चादिति 'प्रस्तावाद् व्रतस्य तपसोऽङ्गीकाराद् वा' उत्तरकालमनुतापः, किमेतावन्मया कष्टमङ्गीकृतम् ? इति चित्तबाधात्मकः पश्चादनुतापस्तेन हेतुना 'उपलक्षणत्वादन्यथा वा' तपःप्रभावं तपःफलमिहैवामदैषध्यादिलब्धिप्रार्थनेन, भवान्तरे भोगादिनिदानकरणेन वा सम्भूतयतिवत् 'नेच्छेदिति प्रक्रमः' । किमेवं निषिध्यते ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकाराननेकभेदानापद्येत प्राप्नोति । इन्द्रियाणि चौरा इव धर्मस्वापहरणादिन्द्रियचौरास्तद्वश्यः । अयमाशयः-तदनुग्रहबुद्ध्या कल्पं पुष्टालम्बनेन च तप:प्रभावं वाञ्छतोऽपि न दोषः । यस्तु विश्रामणाद्यर्थं कल्पं, भोगाद्यर्थं च तपोऽभिलषति तस्यावश्यमिन्द्रियचौरवश्यस्य विकारापत्तिरिति । एतेन च रागस्य हेतुद्वयपरिहार उद्धरणोपाय उक्तः 'उपलक्षणादन्येषामपि राग-द्वेषहेतूनां परिहारो ज्ञेयः' ॥१०४॥
पुनर्दोषान्तरहेतुतामाहतओ से जायंति पओअणाई निमज्जिउं मोहमहण्णवंसि । सुहेसिणो दुक्खविणोयणट्टा तप्पच्चयं उज्जमए अ रागी ॥१०५॥
व्याख्या-ततो विकारापत्तेरनन्तरं 'से' तस्य जायन्ते प्रयोजनानि विषयासेवनप्राणिहिंसादीनि । निमज्जितुमित्यन्त वितणिगर्थत्वान्निमज्जयितुं 'प्रक्रमात् तमेव जीवम्' मोहो महार्णव इवातिदुस्तरतया मोहमहार्णवस्तिस्मिन् । कीदृशस्य पुनरेतानि किमर्थं च जायन्ते ? इत्याह-सुखैषिणः सौख्याभिलाषिणो दुःखस्य विनोदार्थं परिहारार्थं । सुखैषितायां हि दुःखपरिहाराय विषयासेवनादिप्रयोजनसम्भव इति भावः । ततश्च तत्प्रत्ययमुक्तरूपप्रयोजननिमित्तं 'चस्यैवार्थत्वात्' उद्यच्छत्येव तत्प्रवृत्तावुत्सहत एवेत्यर्थः । रागी 'उपलक्षणत्वाद् द्वेषी च'सन् राग-द्वेषयोरेव सर्वानर्थहेतुत्वादिति ॥१०५॥
राग-द्वेषरहितस्य किं स्याद् ? इत्याहविरज्जमाणस्स य इंदियत्था सद्दाइया तावइयप्पयारा । न तस्स सव्वे वि मणुन्नयं वा निव्वत्तयंती अमणुन्नयं वा ॥१०६॥
व्याख्या-विरज्यमानस्य 'उपलक्षणादद्विषतश्च' इन्द्रियार्थाः शब्दादिकाः "तावइय'त्ति यावन्तो लोके प्रतीताः तावन्तः प्रकाराः खर-मधुरादिभेदा येषां ते तावत्प्रकारा बहुप्रभेदा इत्यर्थः । न तस्य मनुजस्य सर्वेऽपि मनोज्ञतां निवर्तयन्ति
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org