________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
किञ्च
न कामभोगा समयं उवेंति न यावि भोगा विगई उविंति । जे तप्पओसी य परिग्गही य सो तेसु मोहा विगई उवेइ ॥१०१॥
व्याख्या-न नैव कामभोगाः समतां राग- -द्वेषाभावरूपामुपयात्युपगच्छन्ति 'हेतुत्वेनेति गम्यम्' तद्धेतुत्वे हि तेषां न कश्चिद् राग-द्वेषवान् स्याद् । न चापि भोगाः शब्दादयो भुज्यमानतया विकृतिं क्रोधादिरूपाम् 'इहापि हेतुत्वेन [इति गम्यम् ] ' उपयान्ति, अन्यथा न कश्चिद् रागद्वेषरहितः स्यात् । तर्हि कोऽनयोर्हेतुरित्याह- यस्तत्प्रदोषी च तेष्वपि विषयेषु प्रद्वेषवान्, परिग्रही च परिग्रहबुद्धिमांस्तेष्वेव रागीत्युक्तं भवति स तेषु विषयेषु मोहाद् रागा- -द्वेषात्मकान्मोहनीयाद् विकृतिमुपैति । राग- -द्वेषरहितस्तु समतामित्यर्थादुक्तमिति ॥१०१॥
किंस्वरूपा विकृतिः ? या राग-द्वेषवशादुपैतीत्याह
७९३
कोहं च माणं तहेव मायं लोभं दुगुंछं अरई रई च । हासं भयं सोग - पुमित्थिवेयं नपुंसवेयं विविहे य भावे ॥ १०२ ॥ आवज्जई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो । अन्ने य एयप्पभवे विसेसे कारुण्णदीणे हिरिमे वइस्से ॥ १०३ ॥
अनयोर्व्याख्या -क्रोधादि भयान्तं स्पष्टम् । 'सोग - पुमित्थिवेयं 'ति शोकं प्रियविप्रयोगजं मनोदुःखरूपम्, पुंवेदं स्त्रीविषयाभिलाषम्, स्त्रीवेदं पुंसोऽभिष्वङ्गम् 'ततो द्वन्द्वे' शोक - पुं- स्त्रीवेदम्, नपुंसकवेदमुभयाभिलाषम्, विविधांश्च भावान् हर्षविषादादीनभिप्रायान् आपद्यते प्राप्नोति । एवममुना राग-द्वेषवता लक्षणेन प्रकारेणानेकरूपाननन्तानुबन्ध्यादिभेदेन तारतम्यभेदेन चैवंविधान् 'विकारानिति गम्यते' कामगुणेषु शब्दादिषु सक्तोऽभिष्वङ्गवान् 'उपलक्षणाद् द्विष्टश्च' अन्यांश्चैतत्प्रभवान् विशेषान् क्रोधादिजनितान् परिताप - दुर्गतिपातादीन् । कीदृशः सन् ? इत्याह- कारुण्यास्पदीभूतो दीनः कारुण्यदीनः 'मध्यपदलोपी समासः' अत्यन्तदीन इत्यर्थः । 'हिरिमे 'त्ति ह्रीमान् लज्जावान् । कोपाद्यापन्नो हीहैवाप्रीत्यादिकमनुभवन् परत्र तद्विपाकमतिकटुकं भावयन् प्रायः कारुण्यं दैन्यं लज्जां च भजते । तथा 'वइस्से' त्ति आर्षत्वाद् द्वेष्यस्तद्दोषदुष्टत्वात् सर्वेषामप्रीत एवेति सूत्रद्वयार्थः ॥ १०२ - १०३॥
राग-द्वेषोद्धरणोपायं, तदनुद्धरणे प्रकारान्तरेण दोषं चाह -
कप्पं न इच्छेज्ज सहायलिच्छू पच्छाणुतावेण तवप्पभावं । एवं वियारे अमियप्पयारे आवज्जई इंदियचोरवसे ॥ १०४ ॥
For Private & Personal Use Only
Jain Education International 2010_02
www.jainelibrary.org