________________
७९१
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
पाल्येन प्रतिपन्नस्य यदि युष्मादृशामपि । न प्रयत्नस्तदा नूनममर्यादमिदं जगत् ॥७७|| त्वद्विप्रयोगनैदाघतापान्मे हृदयावनिः । समाधिनीरशोषेण स्फुटतीव स्फुटं प्रिय ! ॥७८॥ अथैषा कौसुमी वृष्टिं पुष्टां कृत्वाऽधितच्छिरः । श्रावयन्ती श्रवःशर्मकारिणो भूषणारवान् ॥७९।। ससम्भ्रमं सनिर्वेदं भूयोऽभाणीत् स्खलगिरा । जिनरक्षित ! हा नाथ ! व्रजन् मे पाहि जीवितम् ॥८०॥ किमिदं निष्ठुरं वक्षस्तव दैवेन निर्ममे ? । आज्ञाकारी जनः प्राणान् सन्त्यजन् यदुपेक्ष्यते ।।८१॥ प्राणान(द)तिविशिष्टोऽसौ त्वादृशश्चेत् प्रियो जनः । त्यक्त्वा चचाल पर्याप्तं प्राणितेनामुना ततः ॥८२॥ प्रत्यागच्छैकदा गेहमपराद्धं च यन्मया । तत् क्षमस्व न वै प्रीतौ वैरस्यं कुरुते ततः ॥८३।। तवालापपरीरम्भसम्पदः सन्तु दूरतः । दृष्टेऽप्यहं तवास्याब्जे भवाम्युज्जीवितेव भोः ! ॥८४॥ पश्य पश्यैकदा तावत् परावृत्त्य मुखाम्बुजम् । दर्शनामृतपानेन तप्तां मां सुखिनी कुरु ॥८५।। एवं स्पष्टीकृतस्नेहं सुविदग्धं मनोहरम् । प्रम्लानमदनाङ्करपुनरुज्जीवनाम्बुदम् ॥८६॥ अन्तःकपटसंटङ्घ बहिर्माधुर्यबन्धुरम् । तदाकर्ण्य वचस्तस्या अलङ्कारारवानपि ॥८७॥ आघ्राय सौरभं पौष्पं चान्दनं तद्वपुर्गतम् । स्मृत्वा च क्रीडितं पूर्वं ग्राम्यवन्मूढमानसः ॥८८।। विस्मृत्य सकालं शूलाऽऽरोपितस्य हितं वचः । स्वयं दृष्टान्तितदुःखान्यविमी शयालुवत् ॥८९॥ विगणय्य क्षणाच्छिक्षां शैलकेन स्फुटीकृताम् । व्यालुलोकेऽभितत् कामविद्धो द्राग् जिनरक्षितः ॥९०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org