________________
७९०
उत्तरज्झयणाणि-२ तत्र तौ वीक्ष्य सर्वाङ्गमाश्लिष्टा रोषरक्षसा । तदुपान्तमथागत्य साक्षेपमिदमब्रवीत् ॥६३।। रे रे ! मां प्रोज्झय चलितौ शैलकेन दुरात्मना । विदितं न किमद्यापि मुग्धौ ! वां चरितं मम ? ॥६४॥ अरे ! त्यक्त्वैनमद्यापि पुनर्मां श्रयतं द्रुतम् । मत्कृपाणदशाकर्षे मा यातं भोः ! पतङ्गताम् ।।६५।। रे ! मार्गं शरणं गत्वा व्याघ्रीतो मुच्यते कथम् ? । सवाताभिपतद्वह्न धितृण्यं छुटिर्भवेत् ॥६६॥ क्षमा क्रष्टुमहं जन्तुं रे ! कृतान्तमुखादपि । शैलकं शरणं कृत्वा निर्भीकाविव किं युवाम् ? ॥६७|| इत्येवं निष्ठुरोक्त्याऽपि भीतौ यावदम् न हि । ततः क्षोभयितुं वाक्यैरनुकूलैरुपाक्रमत् ॥६८| हंहो ! वां निष्ठुरं चेतः कठिनं शैलतोऽपि हि । यदेवं त्यज्यते भावानुरक्तो लीलया जनः ॥६९॥ सम्भावितो युवाभ्यां चेदपराधोऽस्ति कश्चन । वाच्योऽयमन्यथा त्यागः कथं निर्हेतुकः कृतः ? ॥७॥ सस्नेहमधुरालापान् सरसक्रीडितानि च । विस्मार्यैकपदे कान्तौ ! त्यक्त्वा मां चलितौ हहा ! ॥७१।। कान्तौ ! प्रसद्य दुर्वारमाराग्निकवलीकृतम् । सद्यः शमयतं मेऽङ्ग सङ्गशीतलवारिणा ॥७२।। एवं कृतेऽपि संरम्भे तयोरक्षुभ्यतोरसौ । प्रयुज्यावधिमज्ञासीत् सुक्षोभ्यो जिनरक्षितः ॥७३॥ तमुद्दिश्य ततोऽभाणीत् त्वमेवाभूर्मम प्रियः । त्वयैव सह सद्भावरतिसौख्यं ममाजनि ॥७४॥ स्वभावेनाविदग्धात्मा न प्रियो जिनपालितः । प्रागप्यभून्ममानेन न हि सद्भावजा रतिः ॥७५।। न मे प्रतिवचो दत्ते यद्यसौ मा ददातु तत् । नेदं प्रिय ! तव न्याय्यं प्राणादप्यधिकस्य मे ॥७६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org