________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
कियत्यपि गते काले तावित्यभिहितौ तया । सुस्थितं लवणाधीशं शक्रोऽद्येदं समादिशत् ॥२१॥ शोध्योऽब्धिरित्यतस्तेन तथा कार्यं मया सह । एकविंशतिमाक्रम्यो वारानेषोऽतिशुद्धये ॥ २२ ॥ तृणावकर-पत्रौघ-काष्ठादि निखिलं ततः । आहत्य तत्तटे क्षेप्यमस्मदादियुजाऽमुना ||२३| विधाय तदिदं यावदहमत्रैमि हे प्रियौ ! | भवन्तौ तावदत्रैव प्रासादे तिष्ठतां मुदा ॥२४॥ कदाचिदरतौ कान्तौ ! यियासायां बहिर्युवाम् । यातमौदीच्य - पौरस्त्य - प्रातीच्योद्यानपङ्क्तिषु ॥२५॥ एकैकस्मिन् वने तत्र मनोहरमृतुद्वयम् । अस्ति सर्वर्तुकं शर्मानुभवेतं तदनन्तराम् ॥२६॥ आपाच्ये तु न गन्तव्यं वने कथमपि प्रियौ ! । अवश्यं तत्र गतयोर्विनिपातो भविष्यति ॥२७॥ इत्थं सा तौ दृढीकृत्य जगामाम्भोधिशुद्धये । क्षणं स्थित्वा वनं प्राच्यं जग्मतुश्च दिदृक्षया ॥ २८ ॥ उद्भिन्नकन्दलां तत्र फुल्लत्केतकजातिकाम् । सरसां प्रावृष्टं वीक्ष्य प्रमोदं चित्रमापतुः ॥ २९॥ शरदीव रवेरिन्दोर्जलस्यापि प्रसन्नताम् । सरांसि फुल्लपद्मानि वीक्षाते तत्र विस्मितौ ॥३०॥ ऋतुद्वयसमायोगजनितां तां वनश्रियम् । वीक्ष्यौत्तराऽपि सा दृश्येत्ययातां तत्र तावथ ||३१|| दृष्ट्वा शीतयवस्तम्बान् कान्दमाघ्राय सौरभम् । हेमन्त - शिशिरप्राप्यं तत्रानन्दमवापताम् ॥३२॥ प्रातीच्ये कानने चूतमञ्जर्यामोदमोदिनः । निरीक्ष्यास्मरतां भृङ्गान् वियोगार्ते स्ववल्लभे ||३३|| तत्रोपभुज्य पक्वाम्रफलानि दयिताकुचैः । तुल्यानि सुरभिग्रीष्मलीलामकुरुतां क्षणम् ||३४||
For Private & Personal Use Only
Jain Education International 2010_02
७८७
www.jainelibrary.org