________________
७८०
उत्तरज्झयणाणि-२ अपि चगंधे अतित्ते य परिग्गहमि सत्तोवसत्तो न उवेइ तुढेिं । अतुट्ठिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥५५॥
व्याख्या-गन्धे अतृप्तः परिग्रहे च सक्तः सामान्येन, उपसक्तश्च गाढमासक्तो नोपैति तुष्टिं सन्तोषम् । अतुष्टिदोषेण दुःखी स्यात् । परस्य सम्बन्धि गन्धवद्वस्तु कर्पूरादि लोभाविलो लोभकलुष आदत्ते गृह्णात्यदत्तमिति ॥५५॥
तण्हाऽभिभूयस्स अदत्तहारिणो गंधे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा तथावि दुक्खा न विमोक्खई से ॥५६॥
व्याख्या-तृष्णाभिभूतस्य अदत्तहारिणो गन्धे गन्धविषये यः परिग्रहस्तस्मिन्नतृप्तस्य च 'मायामोसं' मायामृषा वर्धते लोभदोषात् । तत्रापि मायामृषाभाषणे दुःखान्न विमुच्यते स इति ॥५६॥
मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो गंधे अतित्तो दुहिओ अणिस्सो ॥५७॥
व्याख्या-मृषाया अलीकभाषणस्य, पश्चादिदं मया न सुसंस्थापितमुक्तमिति पश्चात्तापात्, पुरस्ताच्च कथमयं वञ्चनीयो मयेति, प्रयोगकाले च नासौ ममालीकभाषितां लक्षयतीति, दुरन्तो नरकादिप्राप्त्या भवति जन्तुर्दुःखी । एवमदत्तान्याददानो गन्धेष्वतृप्तः सन् दुःखितो भवति । कीदृक् ? अनिश्रः सर्वेषामुपेक्षणीयः ॥५७।।
निगमयन्नाहगंधाणुरत्तस्स नरस्स एवं कत्तो सुहं हुज्ज कयाइ किंचि ? । तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स कए ण दुक्खं ॥५८॥
व्याख्या-गन्धानुरक्तस्य नरस्यैवं कुतः सुखं कदाचित् किञ्चित् भवेत् ? । तत्र गन्धोपभोगेऽपि क्लेशदुःखं । निर्वत्युित्पादयति यस्येत्युपभोगस्य कृते दुःखम् 'आत्मन इति गम्यम्' ॥५८||
अथ द्वेषस्यानर्थहेतुतामाहएमेव गंधंमि गओ पओसं उवेइ दुक्खोहपरंपराओ । पदुट्ठचित्तो य चिणेइ कम्मं जं से पुणो होइ दुहं विवागे ॥५९॥ . व्याख्या-एवमेव यथाऽनुरक्तस्तथैव गतो गन्धे प्रद्वेषमुपैति दुःखौघपरम्पराः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org