________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
७७९ द्वेषानुद्धरणे दोषमाहजे आवि दोसं समुवेइ निच्चं तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू न किंचि गंधो अवरज्झई से ॥५१॥
व्याख्या-यश्चापि द्वेषं समुपैति गन्धेषु नित्यं 'तंसि क्खणे'त्ति तस्मिन् क्षणे स दुःखं शारीराद्युपैति । इत्थं तर्हि गन्ध एव दोषहेतुरित्याशङ्क्याह-दुर्दान्तं घ्राणं तदेव दोषो दुर्दान्तदोषस्तेन स्वकीयेन जन्तुः प्राणी । न किञ्चिदमनोज्ञो गन्धोऽपराध्यति दुष्यति 'से' तस्य ॥५१॥
द्वेषस्यानर्थमूलत्वात् त्यागमाहएगतरत्तो रुइरंसि गंधे अतालिसे से कुणई पओसं । दुक्खस्स संपीडमुवेइ बाले न लिप्पई तेण मुणी विरागो ॥५२॥
व्याख्या-एकान्तरक्तो यो रुचिरे मनोहरे गन्धे, अतादृशे अन्यादृशे अरुचिरे गन्धे स करोति प्रद्वेषं, तथा दुःखस्य संपीडं सङ्घातं समुपैति बालोऽज्ञः । न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो नीरागः ॥५२॥
रागस्यैव हिंसाद्याश्रवहेतुत्वमाहगंधाणुयासाणुगए य जीवे चराचरे हिंसइ णेगरूवे । चित्तेहि तं परितावेइ बाले पीलेइ अत्तट्ठ गुरू किलिटे ॥५३॥
व्याख्या-गन्धानुगाऽऽशा गन्धविषयोऽभिलाष इत्यर्थः । तदनुगतश्च जीवांश्चराचरान् त्रस-स्थावरान् हिनस्त्यनेकरूपान् । कांश्चित् तु चित्रैरनेकप्रकारैरुपायैः परितापयति दुःखयति बालोऽपरांश्च पीडयत्यात्मार्थं गुरुः स्वकार्यनिष्ठः क्लिष्टो रागवान् ॥५३॥
अन्यच्चगंधाणुवाएण परिग्गहेण उप्पायणे रक्खण-संनिओगे । वए विओगे य कहं सुहं से संभोगकाले य अतित्तिलाभे ॥५४॥
व्याख्या-गन्धानुपातो गन्धानुरागस्तेन तथा परिग्रहेण मूर्छात्मकेन, उत्पादने उपार्जने, रक्षणं चापायनिवारणं सन्नियोगश्च सम्यग् व्यापारणं रक्षण-सन्नियोगस्तस्मिन्, 'वए'त्ति व्यये विनाशे, वियोगे, 'अर्थाद् गन्धस्य', क्व सुखं ? 'से' तस्य जन्तोः सम्भोगकालेऽतृप्तलाभः, गन्धग्रहणे रागिणां न तृप्तिरिति भावः ॥५४॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org