________________
७७८
उत्तरज्झयणाणि-२ राग-द्वेषोद्धरणे गुणमाहसद्दे विरत्तो मणुओ विसोगो एएण दुक्खोहपरंपरेण । न लिप्पए भवमज्झे वि संतो जलेण वा पुक्खरिणीपलासं ॥४७॥
व्याख्या-शब्दे विरक्तः 'उपलक्षणादद्विष्टश्च' मनुजो मनुष्यो विशोकः शोकरहितः सन् एतेन दुःखौघपरम्परेण न लिप्यते न स्पृश्यते भवमध्येऽपि सन् तिष्ठन्नित्यर्थः । दृष्टान्तमाह-जलेनेव पुष्करिणीपलाशं पद्मिनीपत्रं 'जलमध्येऽपि सदिति शेषः' ॥४७॥ इति त्रयोदश सूत्राणि शब्दाभिलापेन लेशतो रूपवद् व्याख्यातानि ॥
घ्राणेन्द्रियमाश्रित्याहघाणस्स गंधं गहणं वयंति तं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥४८॥
व्याख्या-घ्राणस्य घ्राणेन्द्रियस्य गन्धं ग्रहणमाक्षेपकं वदन्ति । ततश्च तं गन्धं मनोज्ञं कर्पूरादि, अमनोज्ञं लशुनादि । मनोज्ञेतरगन्धयोर्यः समस्तुल्यः स वीतरागो वीतद्वेषश्च ॥४८॥
गंधस्स घाणं गहणं वयंति घाणस्स गंधं गहणं वयंति । रागस्स हेउं समणुण्णमाहु दोसस्स हेडं अमणुन्नमाहु ॥४९॥
व्याख्या-गन्धस्य घ्राणं गृह्णातीति ग्रहणं ग्राहकं वदन्ति । घ्राणस्य गन्धं गृह्यते इति ग्रहणं ग्राह्यं वदन्ति । तदनेन घ्राण-गन्धयोाह्यग्राहकभाव उक्तोऽत एवाह-रागस्य हेतुं घ्राणं समनोज्ञं मनोज्ञ-गन्धविषयमाहुः । द्वेषस्यामनोज्ञममनोज्ञगन्धविषयं हेतुमाहुर्बुवते ॥४९॥
रागानुद्धरणे दोषमाहगंधस्स जो गिद्धिमुवेइ तिव्वं अकालियं पावइ से विणासं । रागाउरे ओसहिगंधगिद्धे सप्पे बिलाओ विव निक्खमंतो ॥५०॥
व्याख्या-गन्धेषु यो गृद्धि रागमित्यर्थः । तीव्रामुपैति सोऽकालिकमायुषोऽर्वागेव प्राप्नोति विनाशं । रागातुरः सन् ओषध्यो नागदमन्यादिकास्तासां गन्धस्तत्र गृद्धो गृद्धिमानोषधिगन्धगृद्धः सन् । 'सप्पे बिलाओ विव'त्ति 'इवशब्दस्य भिन्नक्रमत्वात्' सर्प इव बिलान्निष्क्रामन्, स ह्यत्यन्ततत्प्रियतया तद्गन्धं सोढुमशक्नुवन् बिलादभिनिष्क्रामतीति भावः
॥५०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org