________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
७७७
व्याख्या - शब्देऽतृप्तः, परिग्रहे च सक्तः सामान्येन, उपसक्तश्च गाढमासक्तो नोपैति तुष्टिं सन्तोषम् । अतुष्टिदोषेण दुःखी स्यात् । परस्य सम्बन्धि शब्दवद् वस्तु वादित्रादि लोभाविलो लोभकलुष आदत्ते गृह्णात्यदत्तमिति ॥४२॥
तण्हाऽभिभूयस्स अदत्तहारिणो सद्दे अतित्तस्स परिग्गहे य ।
मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥ ४३ ॥
व्याख्या - तृष्णाभिभूतस्य अदत्तहारिणः शब्दे शब्दविषये यः परिग्रहस्तस्मिन्नतृप्तस्य च 'मायामुस' मायामृषा वर्धते लोभदोषात् । तत्रापि मायामृषाभाषणे दुःखान्न विमुच्यते स इति ॥ ४३ ॥
मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरं । एवं अदत्ताणि समाययंतो सद्दे अतित्तो दुहिओ अणिस्सो ॥४४॥
व्याख्या - मृषाया अलीकभाषणस्य, पश्चादिदं मया न सुसंस्थापितमुक्तमिति पश्चात्तापात्, पुरस्ताच्च कथमयं वञ्चनीयो मयेति, प्रयोगकाले च नासौ ममालीकभाषितां लक्षयतीति । दुरन्तो नरकादिप्राप्त्या भवति जन्तुर्दुःखी । एवमदत्तान्याददानः शब्देष्वतृप्तः सन् दुःखितो भवति । कीदृक् ? अनिश्रः सर्वेषामुपेक्षणीयः ॥४४॥
निगमयन्नाह -
सद्दाणुरत्तस्स नरस्स एवं कत्तो सुहं हुज्ज कयाइ किंचि ? | तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स कए ण दुक्खं ॥४५॥ व्याख्या–शब्दानुरक्तस्य नरस्यैवं कुतः सुखं कदाचित् किञ्चित् भवेत् ? । तत्र शब्दोपभोगेऽपि क्लेशदुःखं । निर्वर्तयत्युत्पादयति यस्येत्युपभोगस्य कृते दुःखम् 'आत्मन इति गम्यम्' ॥४५॥
अथ द्वेषस्यानर्थहेतुतामाह
एमेव सद्दमि गओ पओसं उवेइ दुक्खोहपरंपराओ ।
पदुचित्तो य चिणेइ कम्मं जं से पुणो होइ दुहं विवागे ॥ ४६ ॥
व्याख्या - एवमेव यथाऽनुरक्तस्तथैव गतः शब्दे प्रद्वेषमुपैति दुःखौघपरम्पराः दुःखसमूहम् । तथा प्रद्विष्टचित्तश्चिनोति बध्नाति कर्म यत् 'से' तस्य पुनर्भवति दुःखं विपाकेऽनुभवकाले इह परत्र चेति भावः ॥ ४६ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org