________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् राग- - द्वेषोद्धरणे गुणमाह
रूवे विरत्तो मणुओ विसोगे एएण दुक्खोहपरंपरेण । न लिप्पए भवमज्झे वि संतो जलेण वा पुक्खरिणीपलासं ॥३४॥
व्याख्या- रूपे विरक्तः 'उपलक्षणादद्विष्टश्च' मनुजो मनुष्यो विशोकः शोकरहितः संस्तन्निबन्धनयो राग- -द्वेषयोरभावादेतेनानन्तरोक्तेन 'दुक्खोहपरम्परेणेति' दुःखानामोघाः सङ्घातास्तेषां परम्परा सन्ततिर्दुःखौघपरम्परा तया न लिप्यते न स्पृश्यते भवमध्येऽपि सन् तिष्ठन्नित्यर्थः । दृष्टान्तमाह - जलेनेव 'वाशब्दस्योपमार्थत्वात्' पुष्करिणीपलाशं पद्मिनीपत्रं 'जलमध्येऽपि सदिति शेषः ' । इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि
॥३४॥
श्रोत्रमाश्रित्य तान्याह
सोयस्स सद्दं गहणं वयंति तं रागहेउं तु मणुन्नमाहु ।
तं दोसउं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥३५॥
व्याख्या - श्रोत्रस्य श्रोत्रेन्द्रियस्य शब्द्यत इति शब्दो ग्रहणमाक्षेपकं वदन्ति । ततश्च तं शब्दं मनोज्ञं काकलीगीतादि रागहेतुमाहुः । तममनोज्ञं खर- कर्कशादि द्वेषहेतुमाहुः । समश्चारक्त- द्विष्टतया तुल्यो मनोज्ञेतरशब्दयोः स वीतरागो वीतद्वेषश्च ॥ ३५ ॥
सद्दस्स सोयं गहणं वयंति सोयस्स सद्दं गहणं वयंति । रागस्स हेउं समणुन्नमाहु दोसस्स हेउं अमणुन्नमाहु ॥ ३६ ॥
७७५
व्याख्या - शब्दस्य श्रोत्रं गृह्णातीति ग्रहणं ग्राहकं वदन्ति । श्रोत्रस्य शब्दं गृह्यत इति ग्रहणं ग्राह्यं वदन्ति । तदनेन शब्द - श्रोत्रयोर्ग्राह्य-ग्राहकभाव उक्तोऽत एवाह - रागस्य हेतुं श्रोत्रं समनोज्ञं मनोज्ञशब्दविषयमाहुः । द्वेषस्यामनोज्ञशब्दविषयं हेतुमाहुब्रुवते ||३६|| रागानुद्धरणे दोषमाह
सद्देसु जो गिद्धमुवेइ तिव्वं अकालियं पावइ से विणासं । रागाउरे हरिणमिए व्व मुद्धे सद्दे अतित्ते समुवेइ मचुं ॥३७॥
व्याख्या - शब्देषु यो गृद्धि रागमित्यर्थः । तीव्रामुपैति सोऽकालिकमायुषो - ऽर्वागेव प्राप्नोति विनाशम् । रागातुरः सन् स 'हरिणमिए व्व'त्ति हरिणः प्रसिद्धो मृगः सर्वोऽपि पशुरुच्यते । हरिणश्चासौ मृगश्च हरिणमृग इव मुग्धोऽज्ञः शब्दे गौरीगीतात्मकेऽतृप्तस्तदाकृष्टचित्ततया मृत्युमुपैति ||३७||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org