________________
७७४
उत्तरज्झयणाणि-२ दुःखाविमुक्तिमेव भावयतिमोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो रूवे अतित्तो दुहिओ अणिस्सो ॥३१॥
व्याख्या-मृषाया अनृतभाषणस्य पश्चादिदं मया न सुसंस्थापितमुक्तमिति पश्चात्तापतः । पुरस्ताच्च कथं वञ्चनीयोऽयं मयेति चिन्तयाऽऽकुलत्वेन । प्रयोगकाले चानृतभाषणप्रस्तावे च नासौ ममालीकभाषितां लक्षयति ? इति क्षोभतः । दुःखी सन्, तथा दुष्टोऽन्तः पर्यवसानमिहानेकविडम्बनातोऽमुत्र नरकादिप्राप्त्या यस्यासौ दुरन्तो 'भवति जन्तुरिति गम्यते' । उपसंहरति-एवमदत्तानि समाददानो रूपेष्वतृप्तः सन् दुःखितो भवति। कीदृशः ? अनिश्रो दोषवत्तया सर्वोपेक्षणीयत्वात् कस्यचिदवष्टम्भेन रहितः 'मैथुनाश्रवोपलक्षणं चैतत्' ॥३१॥
निगमयितुमाहरूवाणुरत्तस्स नरस्स एवं कत्तो सुहं हुज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं निव्वत्तई जस्स कए ण दुक्खं ॥३२॥
व्याख्या-रूपानुरक्तस्य नरस्यैवं प्रागुक्तसूत्रप्रकारेण कुतः सुखं भवेत् कदाचित् किञ्चित् ? सदा दुःखमेवेति भावः । यतस्तत्र रूपानुरागे उपभोगेऽपि क्लेशदुःखमतृप्तिलाभतालक्षणबाधाजनितमसातम् । उपभोगमेव विशेषयति-निर्वर्तयत्युत्पादयति यस्येत्युपभोगस्य कृते 'णेत्यलङ्कारे' दुःखं प्रयासलक्षणं कृच्छ्रम् 'आत्मन इति गम्यम्' । उपभोगार्थं हि जन्तुः क्लिश्यति यदुत तत्र मे सुखं स्यादिति । यदि तु तदापि दुःखं तदा कुतोऽन्यदा सुखसम्भवः ? इति भावः ॥३२॥
इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्यापि तामतिदेष्टुमाहएमेव रूवंमि गओ पओसं उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणेई कम्मं जं से पुणो होइ दुहं विवागे ॥३३॥
व्याख्या-एवमेव यथाऽनुरक्तस्तथैव रूपे गतः प्रद्वेषमुपैति 'इहैवेति शेषः' दुःखौघो दुःखसमूहस्तस्य परम्परा उत्तरोत्तरदुःखसमूहरूपाः । तथा प्रदुष्टं प्रकर्षेण द्विष्टं चित्तं यस्य स तथाविधश्च चिनोति बध्नाति कर्म, तच्छुभमपि सम्भवत्यत आह-यत् 'से' तस्य पुनर्भवति दुःखं दुःखहेतुर्विपाकेऽनुभवकाले, इह परत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखपेक्षमिति ॥३३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org