SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ७७३ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् हेतुना, उत्पादने उपार्जने, रक्षणं चापायनिवारणं संनियोगश्च स्व-परप्रयोजनेषु सम्यग्व्यापारणं ततो द्वन्द्वे रक्षणसन्नियोगं तस्मिन् । 'वए'त्ति व्यये विनाशे, वियोगे विरहे, 'सर्वत्र रूपस्येति प्रक्रमः' क्व सुखं ? न क्वचित्, किन्तु सर्वत्र दुःखमेवेति भावः । 'से' तस्य जन्तोः । रूपमूच्छितो हि सुरूपकरि-तुरग-कलत्रादीनामुत्पादनाद्यर्थं क्लेशहेतुषूपायेषु प्रवर्तमानः दुःखमेवानुभवतीति भावः । सम्भोगकाले रूपस्य सुखं भविष्यतीत्याशङ्क्याह-सम्भोगकाले चोपभोगप्रस्तावेऽतृप्तिलाभः । कोऽभिप्रायः ? बहुधाऽपि रूपदर्शने रागिणां न तृप्तिरस्ति । यतोऽन्यैरप्युक्तम् "न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते" ॥१॥ तस्मिन् सति क्व सुखम् ? इत्युत्तरेच्छया हि परिखिद्यत एव रूपानुरागीति ॥२८॥ अपि चरूवे अतित्ते य परिग्गहंमि सत्तोवसत्तो न उवेइ तुह्रि । अतुट्ठिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥२९॥ व्याख्या-रूपेऽतृप्तश्च परिग्रहे च तद्विषयमूर्छात्मके, सक्तः सामान्येनैवासक्तिमान्, उपसक्तश्च गाढमासक्तस्ततः पूर्वं सक्तः पश्चादुपसक्तः सक्तोपसक्तो नोपैति नोपगच्छति तुष्टिं सन्तोषम् । तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन दुःखी, यदि ममेदमिदं च रूपवद् वस्तु स्यादित्याकाङ्क्षातोऽतिदुःखवान् । किं कुर्याद् ? इत्याह-परस्य सम्बन्धि 'रूपवद् वस्त्विति गम्यते' लोभाविलो लोभकलुष आदत्ते गृह्णात्यदत्तमिति । यद्वा परस्य स्वं परस्वं तत्र लोभाविलः सन्नादत्तेऽदत्तमनिसृष्टं 'परकीयमेव रूपवद् वस्तित्वति गम्यम्' ॥२९॥ पुनर्दोषान्तरमाहतण्हाभिभूयस्स अदत्तहारिणो रूवे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥३०॥ व्याख्या-तृष्णाभिभूतस्य लोभपराजितस्य । तत एवादत्तं हरति गह्णातीत्येवंशीलोऽदत्तहारी तस्य । तथा रूपे रूपविषये यः परिग्रहस्तस्मिन्नतृप्तस्य च तत्रासन्तुष्टस्य। मायाप्रधानं 'मोसं'ति मृषाऽलीकभाषणं मायामृषा वर्धते । कुतः ? इत्याह-लोभदोषाल्लोभापराधात् । लुब्धो हि परस्वमादाय तद्रक्षणपरो मायामृषां वक्ति । तत्रापि मृषाभाषणेऽपि दुःखान्न विमुच्यते स किन्तु दु:खभागेव स्यादिति भावः ॥३०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy