________________
७७२
उत्तरज्झयणाणि-२ व्याख्या-यश्चापि द्वेषं दोषं समुपैति समुपगच्छति 'रूपेष्विति प्रक्रमः' नित्यं 'तंसि'त्ति तस्मिन् क्षणे प्रस्तावे यस्मिन् द्वेष उत्पन्नः, स 'तुः पूरणे' उपैति दुःखं हा ! मया किमिदं दृष्टम् ? इति मानसम्, तज्जं शारीरादि च । इत्थं तहि रूपस्यैव दुःखहेतुत्वम्, तद्दर्शन एव द्वेषसम्भवादित्याशङ्क्याह-दुष्टं दमनं दुर्दान्तं तच्च 'प्रक्रमाच्चक्षुः' तदेव दोषो दुर्दान्तदोषः तेन स्वकीयेन जन्तुः प्राणी 'दुःखमुपैतीति उक्तमेव' । न किञ्चिदल्पमपि रूपं 'प्रक्रमादमनोज्ञम् अपराध्यति दुष्यति 'से' तस्य । यदि हि रूपमेवापराध्येत न कस्यचिद् दोषाभावः स्यात्, तथा च मुक्त्यभावादयो दोषा इति भावः ॥२५॥
द्वेषस्य रागहेतुत्वादनर्थमूलत्वं दर्शयंस्तत्त्यागमाहएगंतरत्तो रुइरंसि रूवे अयालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले नालिप्पई तेण मुणी विरागे ॥२६॥
व्याख्या-एकान्तरक्तो यो रुचिरे मनोहरे रूपेऽतादृशेऽन्यादृशेऽरुचिरे रूपे स करोति प्रद्वेषम् । तथा दुःखस्य सम्पीडं सङ्घातं समुपैति बालोऽज्ञः । व्यतिरेकमाह-न लिप्यते श्लिष्यते तेन द्वेषकृतदुःखेन मुनिर्विरागो रागरहितस्तस्यैव तन्मूलहेतुत्वादिति भावः ॥२६॥
सम्प्रति रागस्यैव हिंसाद्याश्रवहेतुतामिहैव च तद्द्वारेण दुःखजनकत्वमाहरूवाणुगासाणुगए य जीवे चराचरे हिंसइ णेगरूवे । चित्तेहि तं परितावेइ बाले पीलेइ अत्तट्ठ गुरू किलिटे ॥२७॥
व्याख्या-रूपं 'प्रस्तावान्मनोशं' अनुगच्छतीति रूपानुगा, सा चासावाशा च रूपानुगाशा रूपविषयोऽभिलाष इत्यर्थः । तदनुगतश्च प्राणी जीवांश्चराचरांस्त्रसस्थावरान् हिनस्ति विनाशयत्यनेकरूपान् जात्यादिभेदतः । कांश्चित् तु विचित्रैरनेकप्रकारैः 'स्व-परकायशस्त्रादिभिरुपायैरिति गम्यते' तमिति 'सुब्व्यत्ययात्' तान् चराचरान् परितापयति दु:खयति बालो विवेकविकलः परांश्च पीडयत्येकदेशदुःखोत्पादनेनात्मार्थं गुरुश्च प्रयोजननिष्ठः क्लिष्टो रागबाधितः ॥२७॥
अन्यच्चरूवाणुवाएण परिग्गहेण उप्पायणे रक्खणसंनिओगे । वए विओगे य कहं सुहं से संभोगकाले य अतित्तिलाभे ॥२८॥ व्याख्या-रूपेऽनुपातोऽनुगमनमनुराग इत्यर्थो रूपानुपातस्तेन, तथा परिग्रहेण मूर्छात्मकेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org