SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ७७१ व्याख्या-चक्षुषो रूपं वर्णः संस्थानं च गृहतेऽनेनेति ग्रहणमाक्षेपकमित्यर्थो विशिष्टेन रूपेण चक्षुराक्षिप्यत इति तद् वदन्ति 'अर्हदादय इति गम्यते' । ततश्च तद् रूपं रागहेतुं 'तुः पूरणे' मनोज्ञमाहुः । तथा तद् रूपमेव द्वेषहेतुममनोज्ञमाहुः । ततश्च तयोश्चक्षुःप्रवर्तने राग-द्वेषसम्भवात् तदुद्धरणाऽशक्तिलक्षणो दोष इति भावः । सति रूपे कथं वीतरागः स्याद् ? इत्याह-समचारक्त-द्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञेतररूपयोः स वीतरागः, तदविनाभावित्वाद् वीतद्वेषश्च । को भाव: ? न तावच्चक्षुः तयोः प्रवर्तयेत् । कथञ्चित् प्रवर्तने समतामेवालम्बेतेति ॥२२॥ ननु यद्येवं रूपमेव राग-द्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्गतैव चिन्ताऽस्तु, 'रूपे चक्षुर्न प्रवर्तयेत्' इत्येवं तु चक्षुश्चिन्ता कर्तुं न युक्तेत्याशङ्क्याह रूवस्स चक्खं गहणं वयंति चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुन्नमाहु दोसस्स हेउं अमणुन्नमाहु ॥२३॥ व्याख्या-रूपस्य चक्षुः गृह्णातीति ग्रहणं वदन्ति । तथा चक्षुषो रूपं गृह्यत इति ग्रहणं प्रागुक्तरीत्याऽऽक्षेपकं ग्राह्यं तद् वदन्ति । तदनेन रूप-चक्षुषोाह्य-ग्राहकभाव उक्तः। तथा न ग्राहकं विना ग्राह्यत्वं नापि ग्राह्यं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति । ततो यथा रूपं राग-द्वेषकारणं तथा चक्षुरप्यत एवाहरागस्य हेतुं 'प्रक्रमाच्चक्षुः' सह मनोज्ञेन ग्राह्येण रूपेण वर्तत इति [समनोज्ञं] समनोज्ञरूपविषयमाहुब्रुवते, द्वेषस्यामनोज्ञममनोज्ञरूपप्रवृत्तमाहुरेवं रूप-चक्षुषोमिलितयोरेव राग-द्वेषजनकत्वात् तावुद्धर्तुकामो रूपे चक्षुर्न प्रवर्तयेदिति भावः ॥२३॥ रागानुद्धरणे दोषमाहरूवेसु जो गिद्धिमुवेइ तिव्वं अकालियं पावइ सो विणासं । रागाउरे से जह वा पयंगे आलोयलोले समुवेइ मच्चु ॥२४॥ व्याख्या-रूपेषु यो गृद्धि गाऱ्या रागमित्यर्थः । उपैति तीव्रामुत्कटां, अकाले भवमकालिकं यथास्थित्यायुषोरांगेव प्राप्नोति स विनाशम् । रागेणातुरो रागातुरः सन् स इति लोकप्रतीतो यथा वेति 'वाशब्दस्येवार्थत्वाद् यथैव पतङ्गः शलभ आलोक: स्निग्धदीपशिखादिदर्शनं तस्मिन् लोलो लम्पट आलोकलोलः समुपैति मृत्यु तस्यापि ह्यालोकलोलत्वं राग एवेति भावः ॥२४॥ द्वेषानुद्धरणे दोषमाहजे यावि दोसं समुवेइ निच्चं तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू न किंचि रूवं अवरज्झई से ॥२५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy