________________
७७०
उत्तरज्झयणाणि-२ तस्याः प्रभवो यस्य तत् कामानुगृद्धिप्रभवं 'खुरेवार्थे' कामानुगृद्धिप्रभवमेव, किं तद् ? दुःखं, सर्वस्य लोकस्य प्राणिगणस्य सदेवकस्य देवैः समन्वितस्य यत् कायिकं रागादि, मानसिकं चेष्टवियोगादिजन्यं किञ्चित् स्वल्पमपि तस्य द्विविधस्यापि दुःखस्यान्तमेवान्तकं पर्यन्तं गच्छति वीतरागो विगतकामानुगृद्धिरित्यर्थः ॥१९॥
ननु कामाः सुखरूपतयैवानुभूयन्ते तत् कथं कामानुगृद्धिप्रभवमेव दुःखं ? उच्यते
जहा य किंपागफला मणोरमा रसेण वण्णेण य भुज्जमाणा । ते खुद्दए जीविय पच्चमाणा एउवमा कामगुणा विवागे ॥२०॥
व्याख्या-यथा च किम्पाको वृक्षविशेषस्तत्फलानि 'अपेर्गम्यत्वात्' मनोरमाण्यपि रसेनास्वादेन, वर्णेन रक्तादिना 'चशब्दाद् गन्धादिना च' भुज्यमानानि 'ते' इति तानि प्रतीतानि, क्षुद्रके सोपक्रमे जीविते आयुषि पच्यमानानि विपाकावस्थाप्राप्तानि 'मरणान्तदुःखदायीनीति शेषः' 'लिङ्गव्यत्ययः प्राकृतत्वात्' एतदुपमाः किम्पाकफलतुल्याः कामगुणा विपाके फलप्रदानकाले । को भावः ? यथा किम्पाकफलानि भुज्यमानानि विपाके दुःखदानि, एवं कामगुणा अप्युपभुज्यमाना नरकादिदुःखदायिन इति ॥२०॥
रागस्यैव द्वेषसहितस्योद्धरणोपायमाहजे इंदियाणं विसया मणुन्ना न तेसु भावं निसिरे कयाइ । न यामणुन्नेसु मणं पि कुज्जा समाहिकामे समणे तवस्सी ॥२१॥
व्याख्या-ये इन्द्रियाणां चक्षुरादीनां विषया रूपादयो मनोज्ञाः, न तेषु विषयेषु भावमभिप्रायम् 'अपेर्गम्यत्वात्' भावमपि 'प्रस्तावादिन्द्रियाणि प्रवर्तयितुं' किं पुनस्तत्प्रवर्तनामित्यपेरर्थः, निसृजेत् कुर्यात् कदाचित् । मनोज्ञविषयप्रवृत्तानां मनःप्रभृतीनां रागनिमित्तत्वात् । तथा न च नैवामनोज्ञेषु मनोऽपि 'अत्रापि इन्द्रियाणि प्रवर्तयितुम्' 'अपिशब्दार्थः प्राग्वत्' कुर्यादमनोज्ञविषयप्रवृत्तानामपि मनःप्रभृतीनां द्वेषनिमित्तत्वात् । तदनेन वाक्यद्वयेनापीन्द्रियदम उक्तः । समाधिश्चित्तैकाग्र्यं स च राग-द्वेषाभाव एव तत्कामो राग-द्वेषोद्धरणाभिलाषी श्रमणस्तपस्वी ॥२१॥
अथ विषयेषु प्रवर्तने राग-द्वेषानुद्धरणे च प्रत्येकमिन्द्रियाणि प्रसङ्गतो मनश्चाश्रित्य दोषं दर्शयितुमाह
चक्खुस्स रूवं गहणं वयंति तं रागहेउं तु मणुन्नमाहु । तं दोसहेडं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org