________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
७६९ व्याख्या-'कामं तु'त्ति अनुमतमेवैतत् यदुत 'देवीहिं विपत्ति देवीभिरप्यप्सरोभिरपि 'आस्तां मानुषीभिरित्यपिशब्दार्थः' भूषिताभिरलङ्कृताभिर्न नैव 'चाइय'त्ति शकिताः क्षोभयितुं चालयितुं 'संयमादिति गम्यते' तिसृभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्ताः 'अर्थान्मुनयः' । तथापि यद्यप्येवंविधाश्चालयितुं न शक्यन्ते, तदप्येकान्तहितमेतदिति ज्ञात्वा कोऽर्थः ? सम्भवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति, येऽपि च न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासेऽवर्णवादादिदोषभाजो भवेयुः, इत्यादि परिभाव्य विविक्तवासो विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्त वितणिगर्थत्वात् प्रशंसितो गणधरादिभिरतः स एवाश्रयणीय इति भावः ॥१६।।
एतत्समर्थनार्थमेव स्त्रीणां दुरितक्रमत्वमाहमुक्खाभिकंखिस्स वि माणवस्स संसारभीरुस्स ठियस्स धम्मे । न तारिसं दुत्तरमत्थि लोए जह त्थीओ बालमणोहराओ ॥१७॥
व्याख्या-मोक्षाभिकाङ्क्षिणोऽपि मानवस्य, संसाराद् भयनशीलः भीरुः संसारभीरुः 'अपेरत्रापि सम्बन्धात्' तस्यापि, तथा स्थितस्यापि धर्मे श्रुतधर्मादौ । न तादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो बालमनोहरा निर्विवेकचित्ताक्षेपिण्यो दुस्तरा, दुस्तरत्वे च बालमनोहरत्वं हेतुरतश्चातिदुस्तरत्वादासां त्याज्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः ॥१७।।
स्त्रीसङ्गातिक्रमे गुणमाहएए य संगे समइक्कमित्ता सुहुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता नई भवे अवि गंगासमाणा ॥१८॥
व्याख्या-एतांश्च सङ्गान् सम्बन्धान् स्त्रीविषयान् समतिक्रम्योल्लङ्घ्य सुखोत्तराः सुखोल्लङ्घ्याश्चैव भवन्ति शेषा द्रव्यादिसङ्गाः, सर्वसङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेव तेषु प्राधान्यादिति भावः । दृष्टान्तमाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य, नदी भवेत् 'सुखोत्तरैवेति प्रक्रमः' वीर्यातिशययोगत इति भावः । अपि गङ्गासमानेति गङ्गा किल महानदी तत्सदृशाऽप्यास्तामितरा क्षुद्रनदीत्यपिशब्दार्थः ॥१८॥
रागस्य दुःखहेतुत्वं दर्शयतिकामाणुगिद्धिप्पभवं खु दुक्खं सव्वस्स लोगस्स सदेवगस्स । जं काइयं माणसियं च किंचि तस्संतगं गच्छइ वीयरागो ॥१९॥ व्याख्या-कामा विषयास्तेष्वनुगृद्धिः सतताभिकाङ्क्षा 'अनोः सातत्यार्थत्वात्'
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org