________________
७६७
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ख्यापनार्थम् । किमित्येवम् ? इत्याह–प्रायो बाहुल्येन रसाः ‘निषेव्यमाणा इति गम्यते' दृप्तिर्धातूद्रेकस्तत्करणशीला दृप्तिकरा नराणाम् 'उपलक्षणात् स्त्र्यादीनां च' ते ह्युपभुक्तास्तेषामुदीरयन्ति मोहानलमित्युक्तं च
"विगईपरिणइधम्मो मोहो जमुदिज्जए उदिण्णे य ।
सुटु वि चित्तजयपरो कहं अकज्जे ण वट्टिहिई" ? ॥१॥ एवं च को दोषः ? इत्याह-दृप्तं दर्पिष्ठं 'नरमिति प्रक्रमः, चः पुनरर्थे, जात्यपेक्षया एकवचनम्' कामा विषयाः समभिद्रवन्ति पराभवन्ति । तथाविधस्त्र्याधभिलषणीयत्वात् सुखाभिभवनीयत्वाच्चेति भावः । कमिव क इव ? इत्याह-द्रुमं वृक्षं यथा स्वादुफलं मधुरफलोपेतं 'वेति भिन्नक्रमः' ततश्च पक्षिण इव । इह च द्रुमोपमः पुरुषादिः, स्वादुफलतातुल्यं च दृप्तत्वं, पक्षिसदृशाश्च कामा इति । अनेन रसप्रकामभोजने दोष उक्तः ॥१०॥
अथ सामान्येन प्रकामभोजने दोषमाहजहा दवग्गी पउरिंधणे वणे समारुओ नोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो न बंभयारिस्स हियाय कस्सई ॥११॥
व्याख्या-यथा दवाग्निर्दवानलः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं विध्यातमुपैति प्राप्नोति । एवमिति दवाग्निवन्नोपशमभाग भवति 'इंदियग्गि'त्ति इन्द्रियशब्देनोन्द्रियजनितो राग एवोक्तस्तस्यैवानर्थहेतुत्वेनेह चिन्त्यमानत्वात् स एवाग्निरिव धर्मवनादहकत्वादिन्द्रियाग्निः सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य, प्रकामभोजनस्य पवनप्रायत्वेन तदुदीरकत्वात्, न ब्रह्मचारिणो हिताय ब्रह्मचर्यविघातकत्वेन कस्यचिदतिसुस्थितस्यापि, तदनेन प्रकामभोजनस्य परिहार्यत्वमुक्तम् ॥११॥
अथ रागमुद्धर्तुकामेन यदतियत्नेन कर्तव्यं तदाहविवित्तसिज्जासणजंतियाणं ओमासणाणं दमिइंदियाणं । न रागसत्तू धरिसेइ चित्तं पराइओ वाहिरिवोसहेहिं ॥१२॥
व्याख्या विविक्ता स्त्र्यादिविकला शय्या वसतिस्तस्यामासनमवस्थानं तेन यन्त्रिता विविक्तशय्यासनयन्त्रितास्तेषाम् । अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न नैव रागः शत्रुरिवाभिभवहेतुत्वाद् रागशत्रुर्घर्षयति पराभवति चित्तम् । क इव ? पराजितः
१. विकृतिपरिणतिधर्मो मोहो यदुदीर्यते उदीर्णे च ।
सुष्ठ्वपि चित्तजयपरः कथमकार्ये न वर्तिष्यते ? ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org