________________
उत्तरज्झयणाणि - २
व्याख्या - रागश्च माया - लोभात्मकः, द्वेषोऽपि च क्रोध-मानात्मकः, कर्म ज्ञानावरणीयादि तस्य बीजं कारणं कर्मबीजं, कर्म च मोहात् प्रभवतीति मोहप्रभवं मोहकारणमं वदन्ति 'चः सर्वत्र समुच्चये' । कर्म च पुनर्जातयश्च मरणं च जाति-मरणं तस्य मूलं कारणं, दुःखं च जाति-मरणं वदन्ति । जाति - मरणस्यैवादितदुःखहेतुत्वात् । उक्तं हि
७६६
"मैरमाणस्स जं दुक्खं जायमाणस्स जंतुणो ।
तेण दुक्खेण संतत्तो न सरइ जाइमप्पणो" ॥१॥ ||७|| अतः किं स्थितमित्याह
दुक्खं हयं जस्स न होइ मोहो मोहो हओ जस्स न होइ तण्हा । तहा हया जस्स न होइ लोहो लोहो हओ जस्स न किंचणाई ॥८ ॥
व्याख्या - दुःखं हतमिव हतं केन ? इत्याह- यस्य न भवति मोहस्तस्यैव तन्मूलकारणत्वाद्, मोहो हतो यस्य न भवति तृष्णा, कोऽर्थः ? तृण्याया अभावान्मोहाभावस्तदायतनत्वेन तस्याभिधानात् । तृष्णा हता यस्य न भवति लोभः, लोभो हतो यस्य न किञ्चनानि द्रव्याणि 'सन्तीति गम्यते' । सत्सु हि तेषु सम्भवत्यभिकाङ्क्षा तद्रूप एव हि लोभः । यत् तु तत्सद्भावेऽपि लोभहननं भरतादीनां तत्कादाचित्कत्वान्न विवक्षितमिति ॥८॥
दुःखहेतुमोहादीनामुन्मूलनोपायं प्रस्तावयितुमाह—
रागं च दोसं च तहेव मोहं उद्धत्तुकामेण समूलजालं ।
जे जे उवाया पडिवज्जियव्वा ते कित्तइस्सामि अहाणुपुवि ॥ ९ ॥ व्याख्या-रागं च द्वेषं च तथैव मोहमुद्धर्तुकामेनोन्मूलयितुमिच्छता सहमूलानामिव मूलानां मोहप्रकृतीनां जालेन समूहेन वर्तत इति समूलजालस्तम् । ये ये उपायास्तदुद्धरणहेतवः प्रतिपत्तव्या अङ्गीकर्तव्यास्तान् कीर्तयिष्याम्यानुपूर्व्याऽनुक्रमेण ॥ ९ ॥
ताने वाह
रसा पगामं न निसेवियव्वा पायं रसा दित्तिकरा नराणं ।
दित्तं च कामा समभिद्दवंति दुमं जहा सादुफलं व पक्खी ॥१०॥ व्याख्या - रसाः क्षीरादिविकृतयः प्रकाममत्यर्थं च निषेवितव्या नोपभोक्तव्याः । प्रकामग्रहणं तु वातादिक्षोभोपशमाय रसाः सेव्याः, एवं निष्कारणसेवनस्य तु निषेध इति १. म्रियमाणस्य यद् दुःखं जायमानस्य जन्तुनः । तेन दुःखेन सन्तप्तो न स्मरति जातिमात्मनः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org