________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
७६५ मिच्छेद् ‘गच्छान्तवर्ती सन्निति गम्यम्' निपुणा अर्थेषु जीवादिषु बुद्धिरस्येति निपुणार्थबुद्धिस्तम् । तथा निकेतमाश्रयमिच्छेद् विवेकः पृथग्भावः स्त्र्यादिसंसर्गाभाव इति यावत् तस्मै योग्यमुचितं तदापाताद्यसम्भवेन विवेकयोग्यम् । समाधिव्यभावभेदाद् द्विभेदस्तत्र द्रव्यसमाधिः क्षीर-शर्करादिद्रव्याणां परस्परमविरोधेनावस्थानम् । भावसमाधिस्तु ज्ञानादीनामन्योन्यमबाधयावस्थानमेतं भावसमाधि कामयतेऽभिलषतीति भावसमाधिकामो ज्ञानाद्यवास्तुकाम इत्यर्थः । श्रमणस्तपस्वी ॥४॥
कालादिदोषत एवंविधसहायाप्राप्तौ कृत्यमाहन वा लभिज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा । इक्को वि पावाइ विवज्जयंतो विहरेज्ज कामेसु असज्जमाणो ॥५॥
व्याख्या-'नेति निषेधे, वाशब्दश्चेदर्थे' ततश्च न चेल्लभेत निपुणमिति निपुणबुद्धि सहायं, गुणैर्ज्ञानादिभिरधिकं, गुणत इति ज्ञानादिगुणानाश्रित्य समाश्रित्य समं वा तुल्यम् 'उभयत्र आत्मन इति गम्यते, वा विकल्पे' ततश्चैकोऽप्यसहायी पापानि पापहेतून्यनुष्ठानानि विवर्जयन् विहरेत् संयमाध्वनि यायात् । कामेषु विषयेष्वसजन् प्रतिबन्धमकुर्वंस्तथाविधगीतार्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निषिद्धत्वात् ॥५॥
दुःखस्य दुःखहेतूनां वा भावं दृष्टान्तेनाहजहा य अंडप्पभवा बलागा अंडं बलागप्पभवं जहा य । एमेव मोहययणं खु तण्हं मोहं च तण्हाययणं वयंति ॥६॥
व्याख्या-यथा च येनैव प्रकारेणाण्डप्रभवा बलाका । पक्षिविशेषोऽण्डं बलाकाप्रभवं यथा च । एवमेवानेनैव प्रकारेण मोहोऽज्ञानमायतनमुत्पत्तिस्थानं यस्याः सा मोहायतना ताम् ‘खुरेवार्थे' तृष्णां 'वदन्तीति सम्बन्धः' मोहं च तृष्णाऽऽयतनं वदन्ति । तृष्णा हि सति वस्तुनि मूर्छा सा च रागप्रधाना ततस्तया राग उपलक्ष्यते । द्वेषोऽपि तस्मिन् सति सम्भवतीत्यनयैवाक्षिप्यते । ततस्तृष्णाऽऽक्षिप्तयो रागद्वेषयोरनन्तानुबन्धिकषायरूपः सत्तायामवश्यम्भावी मिथ्यात्वोदयोऽत एवोपशान्तकषायवीतरागस्यापि मिथ्यात्वगमनम् । तत्र सिद्ध एवाज्ञानरूपो मोहः । एतेन च परस्परं हेतुहेतुमद्भावेन यथा रागादीनां सम्भवस्तथोक्तम् ॥६॥
यथैतेषां दुःखहेतुत्वं तथाऽऽहरागो य दोसो वि य कम्मबीयं कम्मं च मोहप्पभवं वयंति । कम्मं च जाई-मरणस्स मूलं दुक्खं च जाई-मरणं वयंति ॥७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org