________________
७६४
उत्तरज्झयणाणि-२ प्रतिज्ञातमाहनाणस्स सव्वस्स पगासणाए अन्नाण-मोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं एगंतसोक्खं समुवेइ मोक्खं ॥२॥
व्याख्या-ज्ञानस्य मतिज्ञानादेः सर्वस्य प्रकाशनया निर्मलीकरणेनानेन ज्ञानात्मको मोक्षहेतुरुक्तः । तथाऽज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयम् 'अनयोर्द्वन्द्वे' अज्ञानमोहं तस्य विवर्जना परिहारो मिथ्याश्रुतश्रवण-कुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन स एव सम्यग्दर्शनात्मकोऽभिहितः । तथा रागस्य द्वेषस्य च संक्षयेण विनाशेन एतेन तस्यैव चारित्रात्मकस्याभिधानम् । ततश्च सम्यगदर्शन-ज्ञान-चारित्रैरेकान्तसौख्यं दुःखलेशाकलङ्कितं सुखं समुपैति मोक्षम् । अयं च दुःखप्रमोक्षाविनाभावीत्यनेन स एवोपलक्षित इति ॥२॥ ___ ज्ञानादीनां दुःखप्रमोक्षत्वमुक्त्वामीषां प्राप्तिहेतूनाह
तस्सेस मग्गो गुरु-विद्धसेवा विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य सुत्तऽत्थसंचिंतणया धिई य ॥३॥
व्याख्या-तस्येति योऽपि पूर्वं मोक्षोपाय उक्तस्तस्य एषोऽनन्तरवक्ष्यमाणो मार्गः प्राप्तिहेतुर्यदुत गुरवो यथावच्छास्त्रार्थोपदेशका वृद्धाश्च श्रुतपर्यायदिभिस्तेषां सेवोपासना गुरुवृद्धसेवा इयं च 'गुरुकुलवासोपलक्षणम्' तत्र सुप्रापाण्येव ज्ञानादीनि । यदाह
"नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते ।
धन्ना आवकहाए गुरुकुलवासं न मुंचंति" ॥१॥ तथा विवर्जना परिहारो बालजनस्य पार्श्वस्थादेर्दूराद् दूरेण तत्सङ्गस्याल्पीयसोऽपि महादोषनिबन्धनत्वात् । तथा स्वाध्यायस्यैकान्तनिषेवणा निश्चयेनानुष्ठानं स्वाध्यायैकान्तनिषेवणा । तथा सूत्रस्यार्थोऽभिधेयः सूत्रार्थस्तस्य सञ्चिन्तना । तथा धृतिश्चित्तस्वास्थ्यमनुद्विग्नत्वमित्यर्थो न हि धृति विना ज्ञानादिलाभ इति ॥३॥
यतश्चायं ज्ञानादिमार्गस्तत एतान्यभिलषता प्राक् किं कार्यम् ? इत्याहआहारमिच्छे मियमेसणिज्जं सहायमिच्छे निउणत्थबुद्धि । निकेयमिच्छेज्ज विवेगजोगं समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-आहारमशनादिकमिच्छेदभिलषेन्मितमेषणीयम् । तथा सहायं सहचर
१. ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्रे च ।
धान्या यावत्कथं गुरुकुलवासं च मुञ्चन्ति ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org