________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
इह पूर्वाध्ययने चरणविधिरुक्तः, स च प्रमादस्थानत्यागादेवासेवितुं शक्यः । तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थं द्वात्रिंशमध्ययनमारभ्यते । तत्र च स प्रमादो द्विविधो द्रव्य-भावभेदात् । तत्र द्रव्यप्रमादो मद्यादिः । भावप्रमादो निद्रा-विकथा-कषायविषयादिः । अत्र च भावप्रमादेनैवाधिकारोऽयं च परिहार्य एव दुस्त्यजश्चायं जिनेष्वप्यस्य श्रूयमाणत्वात् । यथा भगवतः श्रीऋषभदेवस्य वर्षसहस्रप्रमाणं कालं तदुग्रं तपश्चरतः सङ्कलितः प्रमादोऽहोरात्रं कथमिदं प्रमाणं घटामटाट्टीति ? उच्यते-किलाप्रमादगुणस्थानस्यान्तर्मुहूर्तिकत्वेनानेकशोऽपि प्रमादप्राप्तौ तदवस्थितिविषयभूतस्यान्तर्मुहूर्तस्यासङ्ख्येयभेदत्वात् तेषामतिसूक्ष्मतायां सर्वसङ्कलनायामप्यहोरात्रमेवावसेयम् । तथा वर्धमानस्वामिनोऽपि द्वादशवर्षाणि साधिकानि तपश्चरतः प्रमादकालोऽन्तर्मुहूर्तमात्र एव सङ्कलितः । इहाप्यन्तर्मुहूर्तानामसङ्ख्येयभेदात् प्रमादस्थितविषयान्तर्मुहूर्तानां सूक्ष्मत्वं सङ्कलनान्तर्मुहूर्तस्य च बृहत्तरत्वमिति भावनीयम् । अत एव जिनाः प्रमादं महादोषं वदन्ति । प्रमादतो हि प्राणिनोऽनन्तसंसारं पर्यटन्ति, अतोऽसौ त्याज्य एवेत्येतदेवाह
अच्चंतकालस्स समूलयस्स सव्वस्स दुक्खस्स उ जो पमोक्खो । तं भासओ मे प्पडिपुण्णचित्ता सुणेह एगंतहियं हियत्थं ॥१॥
व्याख्या-अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तावारम्भक्षणो निष्ठाक्षणश्च । तत्रेहारम्भलक्षणोऽन्तः परिगृह्यते । तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालः तस्य। सह मूलेन कषायाविरतिरूपेण वर्तत इति समूलकस्तस्य । उक्तं च-मूलं संसारस्स होति कसाया अविरई य' त्ति । सर्वस्य दुःखयतीति दुःखः संसारस्तस्य यः प्रकर्षेण मोक्षोऽपगम: 'तुशब्दस्यैवार्थत्वात्' प्रमोक्ष एव तं भाषमाणस्य यथाऽसौ स्यात् तथा ब्रुवाणस्य 'मे' मम प्रतिपूर्ण विषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुत एकान्तहितं किमर्थं ? हितो मोक्षस्तदर्थम् ॥१॥
१. मूलं संसारस्य भवन्ति कषाया अविरतिश्च ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org