________________
७६२
उत्तरज्झयणाणि-२ शिष्यगमनादिकासु वा समवायाङ्गाभिहितासु यो भिक्षुर्यतते यथायोगं सम्यक् श्रद्धानासेवना-वर्जनादिभिः स न आस्ते मण्डले चतुरन्तसंसारे । अत्र श्राद्धप्रतिमादिविस्तरस्वरूपं विधिश्च दशाश्रुतस्कन्धादवसेयः ॥२०॥ निगमनमाह
इइ एएसु ठाणेसु जे भिक्खू जयई सया ।
खिप्पं से सव्वसंसारा विप्पमुच्चइ पंडिए ॥२१॥ त्ति बेमि ॥ व्याख्या-इतीत्यनेन प्रकारेणैतेष्वनन्तरोक्तेष्वसंयमादिस्थानेषु यो भिक्षुर्यतते यत्नवान् भवति सदा । क्षिप्रं स सर्वसंसाराद् विप्रमुच्यते पण्डित इति ब्रवीमीत्यादि पूर्ववत् ॥२१॥ ग्रं० १८९ अ० ८॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां
एकत्रिंशत्तमं चरणविधिनामकमध्ययनं समाप्तम् ॥३१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org