SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ एकत्रिंशत्तमं चरणविधिनामकमध्ययनम् अथ स व्योममार्गेण यात्यायाति च सन्ततम् । सुवर्णकुण्डिकाहस्तः पादयोर्मणिपादुकः ||९|| अन्येद्युर्द्वारिकापुर्यां पृष्टः कृष्णेन नारदः । किं शौचमिति तत्प्रत्युत्तरं दातुं स न क्षमः ॥ १०॥ विनोद्य सूक्तिभिर्विष्णुं तत उत्थाय सोऽगमत् । क्षिप्रं पूर्वविदेहेऽथो उपसीमन्धरं प्रभुम् ॥११॥ युगबाहुहरिस्तत्र किं शौचं पृष्टवान् जिनम् । स्वाम्याह शौचं सत्यं हि तच्छ्रुत्वा नारदो ययौ ॥१२॥ विदेहे पश्चिमे पृष्टस्तन्महाबाहुविष्णुना । शौचं तदेव व्याचष्टे युगन्धरजिनस्तदा ॥१३॥ ततो द्वारवतीं गत्वा नारदः कृष्णमब्रवीत् । सत्यं शौचं हरिः प्राह किं सत्यं तद् वदाशु भो ? || १४ || नारदः प्रोचिवान् सत्यं न पृष्टोऽर्हंस्तदा मया । इत्येवं चिन्तयन् जातिस्मृतिमाप विशुद्धहृत् ॥१५॥ सोऽथ ज्ञात्वा तया सत्यं सर्वभूतहितं खलु । अतीव शोचयन् सम्यक् प्राप प्रत्येकबुद्धताम् ॥१६॥ परिव्रज्य तपस्तप्त्वा घातिकर्मक्षयेण सः । क्षपकश्रेणिमारूढः केवलज्ञानमासदत् ॥१७॥ धर्मधुराधौरेयो विधाय सत्याभिधं महाऽध्ययनम् । सोऽध्यास्त सिद्धिसौधं ध्यानाग्निध्मातकर्मैधाः || १८ || तेन बाल्येऽल्पकर्मत्वात् शयानस्य तरोस्तले । एतस्योपरि तच्छाया जज्ञे पुण्यवतोऽचला ॥ १९॥ तौ मुनी अपि तद्वृत्तं श्रुत्वा वीरजिनाननात् । सत्य- भूतहितासक्तावभूतां सिद्धिभाजनम् ॥२०॥ ॥ इति शौचफले नारदकथा ॥ ततश्च सिद्धातिगुणाश्च ते योगाश्च सिद्धातिगुणयोगास्तेषु । ' तित्तीसासायणासु य' त्ति त्रयस्त्रिंशत्याशातनासु चार्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, आचार्यादेः पुरतः Jain Education International 2010_02 ७६१ For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy