________________
७५९
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
सिद्धाइगुणजोगेसु तित्तीसासायणासु य ।
जे भिक्खू जयई सम्मं से न अच्छई मंडले ॥२०॥ व्याख्या-सिद्धानामतिशायिनो गुणाः सिद्धातिगुणाः संस्थानादिनिषेधरूपा एकत्रिंशत् । यदाह
*"पंडिसेहणसंठाणे वर्गण-गंध-रेस-फास-एं य । पणपणदुपण?तिहा इगतीसमकायऽसंगऽरुही ॥१॥ णव दरिसणंमि चत्तारि आउए पंच आइमे अंते ।
सेसे दो दो भेया खीणभिलावेण इगतीसं" ॥२॥ तथा 'जोग' त्ति 'पदैकदेशेऽपि पदप्रयोगदर्शनात्' योगसंग्रहा यैर्योगाः शुभमनोवाक्-कायव्यापाराः सम्यग् गृह्यन्ते स्वीक्रियन्ते ते चालोचनादयो द्वात्रिंशद् । उक्तं हि
"आलोयणा निरवलावे आवईसु दढधम्मया । अणिस्सिओवहाणे य सिक्खा निप्पडिकम्मया ॥१॥ अण्णायणया अलोभे य तितिक्खा अज्जवे सेई । सम्मट्ठिी सैमाही य आयारे विणओवयए ॥२॥ धिइमई य संवेगो पणिही सुविही संवरे ।
अत्तदोसोवसंहारे सेव्वकामविरत्तया ॥३॥ पेच्चखाणे विउस्सग्गे अप्पमाए लैवालवे । ।
डॉणसंवरजोगे य उदए मारणंतिए ॥४॥ ★ प्रतिषेधनसंस्थानानि वर्ण-गन्ध-रस-स्पर्श-वेदांश्च ।
पञ्च-पञ्च-द्वि-पञ्चाष्ट-त्रिधा एकत्रिंशदकायासङ्गारुहाः ॥१॥ नव दर्शने चत्वार्यायुषि पञ्चादावन्ते । शेषे द्वौ द्वौ भेदौ क्षीणाभिलापेन चैकत्रिंशत् ॥२॥ आलोचना निरपलाप आपत्सु दृढधर्मता । अनिश्रितोपधानश्च शिक्षा निष्प्रतिकर्मता ॥१॥ अज्ञापनताऽलोभश्च तितिक्षाऽऽर्जवः शुचिः। सम्यग्दृष्टिः समाधिश्चाचारो विनयोपगतः ॥२॥ धृतिमतिश्च संवेगः प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः सर्वकामविरक्तता ॥३॥ प्रत्याख्यानं व्युत्सर्गोऽप्रमादो लवालवः । ध्यानसंवरयोगश्चोदयो मारणान्तिकः ||४||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org