________________
७५०
उत्तरज्झयणाणि-२ किरियासु भूयगामेसु परमाहम्मिएसु य ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥१२॥ व्याख्या-क्रियाः कर्मबन्धनिबन्धनभूताश्चेष्टास्तास्वर्थानर्थादिभेदतस्त्रयोदशसु । यदागम:
"अट्ठाणट्ठा-हिंसा-ऽकम्हा दिट्ठी य मोस-ऽदिण्णे या ।
अज्झप्प-माण-ऽमित्ते माया-लोभेरियावहिया" ॥१॥ भूताः प्राणिनस्तेषां ग्रामाः सङ्घाता भूतग्रामाः तेष्वेकेन्द्रियसूक्ष्मेतरादिभेदतश्चतुर्दशसु । यदुक्तम्
“ऐगिदिय सुहुमियरा सन्नियरपणिदिया य सबितिचऊ ।
अपज्जत्ता पज्जत्ता कम्मेण चउदस जियट्ठाणा" ॥१॥ तथा परमाश्च ते सर्वाधार्मिकप्रधानतया अधार्मिकाश्च परमाधार्मिका अतिसंक्लिष्टचित्ता अम्बादयः पञ्चदश । उक्तं च
* अंबे अंबरिसी चेव सामे सबले त्ति आवरे ।
5होवरोद्दकाले य महाकाले त्ति आवरे ॥१॥ असिपत्ते धणुं कुंभे वालू वैयरणी इय ।
खरस्सरे महाघोसे एए पण्णरसाहिया" ॥२॥ तेषु यो भिक्षुर्यतते यथाक्रमं परिहार-रक्षा-परिज्ञानादिभिः ॥१२॥
गाहासोलसएहि तहा असंजमंमि य ।
जे भिक्खू जयई निच्चं से न अच्छड् मंडले ॥१३॥ व्याख्या-गीयते शब्द्यते स्व-परसमयस्वरूपमस्यामिति गाथा सूत्रकृताङ्गस्य षोडशमध्ययनम् । ततश्च गाथाऽध्ययनं षोडशमेषामिति गाथाषोडशकानि 'सुब्ब्यत्ययात्'
१. अर्थानर्थ-हिंसा-ऽकस्माद् दृष्टिश्च मृषा-ऽदत्तं च ।
अध्यात्म-मानामित्री माया-लोभेर्यापथिका ॥१॥ २. एकेन्द्रियाः सूक्ष्मेतराः संज्ञीतरपञ्चेन्द्रियाश्च सद्वि-त्रि-चतुरिन्द्रियाः ।
अपर्याप्ताः पर्याप्ताः क्रमेण चतुर्दश जीवस्थानानि ॥१॥ ★ अम्बोऽम्बर्षिश्चैव श्यामः शबल इत्यपरः । रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥१॥ असिपत्रो धनुः कुम्भो वालुर्वैतरणिरिति । खरस्वरो महाघोष एते पञ्चदशाख्याताः ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org