________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
७४९
व्याख्या - लेश्यासु वक्ष्यमाणासु षट्सु कायेषु पृथिव्यादिषु वक्ष्यमाणेष्वेव । षट्के परिमाणे आहारकारणे वेदनादौ प्रागुक्तरूपे यो भिक्षुर्यतते यथायोगं निरोधोत्पादन—– रक्षानुरोधविधानेन यत्न कुरुते ॥८॥
पिंडुग्गहपडिमा भट्ठाणेसु सत्तसु ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥९॥
व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टादिषु पूर्वाध्ययनोक्तासु 'सप्तस्वित्यत्रापि सम्बध्यते' । तथा भयस्थानेष्विहलोकादिषु सप्तसु यो भिक्षुर्यतते एकत्र पालनातोऽन्यत्र भयाकरणतः ||९||
मएसु बंभगुत्तीसु भिक्खुधम्मंमि सविहे । जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥१०॥
व्याख्या -मदा जातिमदादयोऽष्टौ तेषु प्रसिद्धत्वादिहान्यत्र सङ्ख्याऽनभिधानम्' । ब्रह्मगुप्तषु वसत्यादिनवसु । भिक्षुधर्मे दशविधक्षान्त्यादिभेदे यो भिक्षुर्यतते यथावत् परिहारासेवन- परिपालनादिभिः ॥१०॥
उवासगाणं पडिमासु भिक्खूणं पडिमासु य ।
जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥ ११ ॥
व्याख्या - उपासकानां श्रावकाणां प्रतिमास्वभिग्रहविशेषास्वेकादशसु दर्शनादिषु । यदुक्तिम्
★" सण-वय- सामाइय-पोसह - पेडिमा - अबंभ - सच्चित् । आरंभ-पैस उद्दिट्टवज्जए संमणभूए य" ॥१॥
तथा भिक्षूणां साधूनां प्रतिमासु च मासिक्यादिषु द्वादशसु । यदाह"मासाई सत्तंता पढमा बिइ तइय सत्तराइ - दिणा । अहराइ एगराई भिक्खुपडिमाण बारसगं" ॥१॥
यो भिक्षुर्यतते यथावत् परिज्ञानोपदेश - पालनादिभिः ॥ ११ ॥
★ दर्शन - व्रत - सामायिक पोषध-प्रतिमा- ब्रह्म- सचित्तः । आरम्भ - प्रेष्योद्दिष्टवर्जकः श्रमणभूतश्च ॥१॥
१. मासादयः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रि - दिनाः । अहोरात्रिरेकरात्रिर्भिक्षुप्रतिमानां द्वादशकम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org