SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ७४८ उत्तरज्झयणाणि-२ दंडाणं गारवाणं च सल्लाणं च तियं तियं । जे भिक्खू चयई निच्चं से न अच्छइ मंडले ॥४॥ व्याख्या-दण्ड्यते चारित्रैश्वर्याद्यपहारतोऽसारीक्रियते एभिरात्मेति दण्डाः दुष्प्रणिहितमानसादिरूपा मनोदण्डादयस्तेषां त्रिकं मनोदण्ड-वाग्दण्ड-कायदण्डरूपं तथा गुरुर्लोभाद्याध्मातचित्त आत्मा तद्भावस्तस्य चैतान्यध्यवसानानि गौरवाणि तेषां त्रिकं . ऋद्धिगौरव-रसगौरव-सातागौरवात्मकं तथा शल्यते बाध्यते जन्तुरेभिरिति शल्यानि तेषां त्रिकं माया-निदान-मिथ्यादर्शनशल्यरूपं 'चशब्दौ समुच्चये' यो भिक्षुस्त्यजति वर्जयति नित्यं स न तिष्ठति मण्डले ॥४॥ दिव्वे य जे उवस्सग्गे तहा तेरिच्छ-माणुसे । जे भिक्खू सहई सम्मं से न अच्छइ मंडले ॥५॥ व्याख्या-दिव्यान् देवकृतान् तैरश्चान् पश्वादिकृतान् मानुष्यकान् मनुष्यकृतांश्चोपसर्गान् 'चशब्दादात्मसंवेदनीयांश्च' यो भिक्षुः सहते स न तिष्ठति मण्डले इति प्राग्वत् ॥५॥ विगहा-कसाय-सन्नाणं झाणाणं च दुयं तहा । जे भिक्खू वज्जई निच्चं से न अच्छइ मंडले ॥६॥ व्याख्या-विरुद्धा विरूपा वा कथा विकथा स्त्री-भक्त-देश-राजभेदतश्चतुर्धा । कषायाः क्रोधादयश्चत्वारः । संज्ञा आहार-भय-मैथुन-परिग्रहाख्याः ‘एषां द्वन्द्वे, प्रत्येकं चतुष्कमिति शेषः' 'झाणाणं च'त्ति प्राकृतत्वाद् ध्यानयोश्च द्विकमार्त-रौद्ररूपं यो भिक्षुर्वर्जयति स इत्यादि प्राग्वत् । यद्यपि ध्यानस्य चातुर्विध्येऽपि वर्जनीयप्रस्तावादत्र द्वयोरभिधानम् ॥६॥ वएसु इंदियत्थेसु समिईसु किरियासु य । जे भिक्खू जयई निच्चं से न अच्छड़ मंडले ॥७॥ व्याख्या-व्रतेषु प्राणातिपातविरत्यादिषु पञ्चसु इन्द्रियार्थेषु शब्दादिषु, समितिवीर्यादिषु, क्रियासु च कायिकी-आधिकरणिकी-प्राद्वेषिकी-पारितापनिकी-प्राणातिपातरूपासु यो भिक्षुर्यतते यत्नं कुरुते स न तिष्ठति मण्डले । तत्र व्रत-समितिषु यथावत् परिपालनात्, इन्द्रियार्थेषु माध्यस्थ्यकरणात्, क्रियासु परिहारतश्च ॥७॥ लेसासु छसु काएसु छक्के आहारकारणे । जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy