________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
पूर्वाध्ययने तप उक्तम्, तच्च चरणवत एव स्यादिति चरणविध्यभिधायकमेकत्रिंशत्तममध्ययनमारभ्यते ।।
चरणविहि पवक्खामि जीवस्स उ सुहावहं ।
जं चरित्ता बहू जीवा तिन्ना संसारसागरं ॥१॥ व्याख्या-चरणविधिमागमोक्तं प्रवक्ष्यामि जीवस्य 'तुरेवार्थे' सुखावहमेव शुभावहमेव वा, यं चरित्वाऽऽसेव्य बहवो जीवास्तीर्णाः संसारसागरं मुक्त्यवाप्त्येति भावः ॥१॥ यथाप्रतिज्ञातमाह
एगओ विरई कुज्जा एगओ य पवत्तणं ।
असंजमे नियत्तिं च संजमे य पवत्तणं ॥२॥ व्याख्या-एकत एकस्मात् स्थानाद् विरतिं कुर्यात् । एकत एकस्मिंश्च प्रवर्तनं च 'कुर्यादिति योगः' । एतदेव विशेषेणाह-असंयमाद् हिंसादिरूपात् 'पञ्चम्यर्थे सप्तमी' निवृत्तिं त्यागरूपां संयमे च प्रवर्तनं कुर्यात् 'चशब्द: समुच्चये' ॥२॥
तथा
राग-दोसा य दो पावे पावकम्मपवत्तणे ।
जे भिक्खू रुंभई निच्चं से न अच्छइ मंडले ॥३॥ व्याख्या-राग-द्वेषौ 'चः पूरणे' द्वौ द्विसङ्ख्यौ पापौ कोपादिपापप्रकृतिरूपत्वात्, पापकर्माणि मिथ्यात्वादीनि प्रवर्तयत इति पापकर्मप्रवर्तको यो भिक्षु रुणद्धि उदयस्य, कथञ्चिदुदितयोर्वा प्रसरस्य निराकरणेन तिरस्कुरुते नित्यं स नास्ते न तिष्ठति मण्डले चतुरन्तसंसारे इति वृद्धव्याख्या ॥३॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org