SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ७४६ उत्तरज्झयणाणि-२ षष्ठाष्टम-विकृष्टार्धमास-मासादिकं तथा । वर्धमान-गुणरत्न-संवत्सरतपस्तथा ॥१६॥ सिंहनिष्क्रीडितं भिक्षुप्रतिमाद्यं सुदुस्तपम् । तप्यमानस्तपश्चात्मनीनो व्रतमपालयत् ।।१७॥ त्रिभिः कुलकम् एवं तपोभिर्विविधैरात्मानं भावयन् मुनिः । सत्त्वावान् शोषिताङ्गोऽभूत् स कृशो धमनीसमः ॥१८॥ ततः स स्वाम्यनुज्ञातः संलिख्य विधिना वपुः । समाधिमाननशनं पादपोपगमं व्यधात् ॥१९॥ इत्थं स स्कन्दकः साधुव्रतं द्वादशवत्सरी । पालयित्वाऽच्युते कल्पे देवत्वेनोदपद्यत ॥२०॥ तत्र दिव्यसुखं भुक्त्वा ततश्च्युत्वा स सेत्स्यति । महाविदेहे प्रव्रज्य भविताऽनन्तसौख्यभाक् ॥२१॥ इति तपसो माहात्म्यं मत्वा मुनयो महानुभावा भोः ! । यूयमपीह यतध्वं भवत यथा सातिनस्तद्वत् ॥२२।। इति तपःफले स्कन्दकमुनिकथा ॥ इति ब्रवीमीति प्राग्वत् ॥३७॥ ग्रं० २६६ अ० ६॥ इति श्रीकमलसंयमोपाध्यायविरचितायां सर्वार्थसिद्धौ श्रीउत्तराध्ययनटीकायां त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनं समाप्तम् ॥३०॥ . . Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002566
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy