________________
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम्
पृष्टे तत् पिङ्गलप्रश्नस्वरूपे गौतमेन सः । विस्मितः स्कन्दकः प्रोचे ज्ञातं गौतम ! तत्कथम् ? ||९||
गौतमोऽप्यचिवान् जाने सर्वविन्मद्गुरोर्मुखात् । ततः सर्वज्ञनिर्णीतेः श्रीवीरं स्कन्दकोऽनमत् ॥१०॥
स हृष्टः प्राञ्जलिः प्राहादिश निःशंसयान् विभो 1 पिङ्गलप्रश्नितानर्थान् प्रभुरादिष्टवानिति ॥११॥
तथाहि - "खंदया ! चत्तारि वि लोयाइअ दव्वओ एगदव्वत्तणओ अं खित्तओ णं लोए असंखेज्जजोयणकोडाकोडीप्पमाणे, जीवे असंखेज्जपएसिए असंखिज्जपएसोगाढे, सिद्धी पणतालीसं जोयणसयसहस्साइं आयामविक्खंभेणं, सिद्धे असंखेज्जपएसिए असंखेज्जपएसोगाढे अउ चउरो वि स अंते । कालओ कालत्तयवत्तिण उ चत्तारि वि अणंते । भावओ अनंतणाणाइपज्जवत्तणओ चत्तारि वि अणंते । मरणे वि खंदया ! दुविहे पन्नत्ते । तं जहा - बालमरणे पंडियमरणे य । तत्थ णं बालमरणेणं मरमाणे जीवे अनंतेहिं नेरइय - तिरियभवग्गहणेहिं अप्पाणं संजोएइ संसारमणुपरिट्ट । पंडियमरणेणं मरमाणे जीवे अणंतेहिं नेरइय- तिरियभवग्गहणेहिं अप्पाणं विसंजोएइ संसारं वीईवयइ" ॥
1
ततो भवभयोद्विग्नं संविग्नं शुद्धमानसम् । स्कन्दकं भगवान् धर्मोपदेशं पुनरब्रवीत् ॥ १२॥
44
'यथा कश्चिद् विपश्चिद् भो ! गृहे लग्ने प्रदीपने । बहिस्तात् सारभाण्डानि निष्काशयति तत्क्षणात् ॥१३॥ आदीप्ते च प्रदीप्ते च जरया मृत्युना तथा । लोके सारत्वमात्मानं निष्काशय महामते ! " ॥ १४ ॥ इति श्रुत्वा प्रबुद्धः स प्रव्रज्य स्कन्दकः सुधीः । अधीत्यैकादशाङ्गेषु शिक्षाकर्मसु कर्मठः ||१५||
७४५
१. स्कन्दक ! चत्वारोऽपि लोकादिका द्रव्यत एकद्रव्यत्वात् सान्ता: । क्षेत्रतो लोकोऽसङ्ख्येययोजनकोटाकोटिप्रमाणः । जीवोऽसङ्ख्येयप्रदेशिकोऽसङ्ख्येयप्रदेशावगाढः । सिद्धिः पञ्चचत्वारिंशद् योजनशतसहस्राणि आयामविष्कम्भेन । सिद्धोऽसङ्ख्येयप्रदेशिकोऽसङ्ख्येयप्रदेशावगाढोऽतश्चत्वारोऽपि सान्ताः । कालतः कालत्रयवर्तिनस्तु चत्वारोऽप्यनन्ताः । भावतोऽनन्तज्ञानादिपर्यवत्वतश्चत्वारोऽप्यनन्ताः । मरणे अपि स्कन्दक ! द्विविधे प्रज्ञप्ते । तद् यथा - बालमरणं पण्डितमरणं च । तत्र खलु बालमरणेन म्रियमाणो जीवोऽनन्तैर्नैरयिक- तिर्यग्भवग्रहणैरात्मानं संयोजयति संसारमनुपरिवर्तते । पण्डितमरणेन म्रियमाणो जीवोऽनन्तैर्नैरयिक- तिर्यग्भवग्रहणैरात्मानं विसंयोजयति संसारं व्यतिव्रजति ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org