________________
७४४
उत्तरज्झयणाणि-२ 'शेषव्युत्सर्गोपलक्षणमिदं' तस्यानेकविधत्वात् । उक्तं च
"दव्वे भावे य तहा दुविह वुस्सगो चउव्विहो दव्वे ।
गण-देहोवहि-भत्ते भावे कोहाइचाउ त्ति" ॥१॥ ॥३६॥ अथाध्ययनार्थमुपसंहरन्नस्यैव फलमाह
एयं तवं तु दुविहं जं सम्मं आयरे मुणी ।
से खिप्पं सव्वसंसारा विप्पमुच्चइ पंडिए ॥३७॥ त्ति बेमि ॥ व्याख्या-एतदनन्तरोक्तस्वरूपं तपो द्विविधमपि यः सम्यगाचरेदासेवेत मुनिः स क्षिप्रं शीघ्रं संसाराच्चतुर्गतिरूपादि विप्रमुच्यते पृथग् भवति पण्डितः । अत्र कालत्रयेऽपि तुल्यमाहात्म्यत्वादस्यैतत्क्षेत्रापेक्षया वर्तमानतेति । अत्रार्थे दृष्टान्तो यथा
प्रभुः कयङ्गलापुर्यां चैत्ये छत्रपलाशके । श्रीवीरः समवासार्षीत् सुर-साधुपुरस्कृतः ॥१॥ समस्तारिस्तदभ्यासे समस्तास्तोकवस्तुभूः । समस्ति पूश्च श्रावस्ती समस्ति स्वस्तिशस्तिका ॥२॥ गर्दभाल्यन्तिषत् तत्र परिव्राट् स्कन्दकोऽभवत् । कात्यायनसगोत्रीयो वेद-स्मृति-पुराणवित् ॥३॥ तत्रान्यदा तमप्राक्षीद् वीरशिष्यर्षिपिङ्गलः । भोः स्कन्दक ! मम प्रश्नस्योत्तरं वद पण्डित ? ॥४॥ किं सान्तोऽनन्तो वा लोको जीवश्च सिद्धिरथ सिद्धः । केन मरणेन जीवाः संसारे संसरन्ति तथा ? ॥५॥ ततः सम्यगजानानस्तमर्थं स्कन्दकोऽजनि । तूष्णीको द्विस्त्रिरप्येवं पृष्टस्तस्थौ तथैव सः ॥६॥ श्रीवीरं वन्दितुं लोकं यान्तं दृष्ट्वा प्रचेलिवान् । स्कन्दकोऽपि स्वसन्देहं प्रष्टुं द्रुतमुपप्रभु ॥७॥ स्वामी तत् पिङ्गलप्रश्नं स्कन्दकाज्ञानवार्तिकम् । गौतमं प्राह सोऽथागादभ्यगात तं च गौतमः ॥८॥
१. द्रव्ये भावे च तथा द्विविधो व्युत्सर्गश्चतुविधो द्रव्ये ।
गण-देहोपधि-भक्ते भावे क्रोधादित्याग इति ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org