________________
७४३
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् तदाऽऽख्यातम् । तद् दशविधत्वमाचार्यादिविषयभेदाद् । उक्तं च
*"आयरिय-उवज्झाए थेरे-तैवस्सी गिलाण-संहाण ।
साहम्मिय-कुल-गण-संघसंगयं तमिह कायव्वं" ॥१॥ ॥३३॥ स्वाध्यायमाह
वायणा पुच्छणा चेव तहेव परियट्टणा ।
अणुपेहा धम्मकहा सज्झाओ पंचहा भवे ॥३४॥ व्याख्या-प्राग्वत् ॥३४॥ ध्यानमाह
अट्ट-रुद्दाणि वज्जित्ता झाइज्जा सुसमाहिए ।
धम्म-सुक्काइ झाणाइं झाणं तं तु बुहा वए ॥३५॥ व्याख्या-ऋतं दुःखं ऋते भवमात, रोदयत्यपरानिति रौद्रो हिंसादिपरिणत आत्मैव तस्येदं कर्म रौद्रं, आर्तं च रौद्रं चार्त-रौद्रे 'प्राकृतत्वाद् बहुत्वं' वर्जयित्वा ध्यायेत् सुसमाहितः । किम् ? इत्याह-धर्मः क्षान्त्यादिदशलक्षणस्तस्मादनपेतं धर्म्य, शुक्लं शुचि निर्मलं मिथ्यात्वादिमलविलयनात् यद्वा शुगिति दुःखमष्टप्रकारं कर्म ततः शुचं क्लमयति निरस्यतीति शुक्लम् 'अनयोर्द्वन्द्वः' ततो धर्म्य-शुक्ले ध्याने स्थिराध्यवसानरूपे । उक्तं च-जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं'ति । ध्यानं ध्यानाख्यं तत् तपः 'तुरेवार्थे' तदेव बुधाः 'वए'त्ति वदन्ति 'प्राकृतत्वादेकवचनम्' ॥३५॥ व्युत्सर्गमाह
सयणासण ठाणे वा जे उ भिक्खू न वावरे ।
कायस्स विउस्सग्गो छट्ठो सो परिकित्तिओ ॥३६॥ व्याख्या-शयनं स्वापः, आसनमुपवेशनम् 'सूत्रत्वादुभयत्र सुपो लुक्' स्थाने ऊर्ध्वस्थाने 'यथाशक्ति स्थित इति गम्यम्, वा विकल्पे' यस्तु भिक्षुर्न 'वावरे'त्ति न व्याप्रियते न चलनादिक्रियां कुरुते । 'यत्-तदोनित्याभिसम्बन्धात्' तस्य भिक्षोः कायस्य व्युत्सर्गः परित्यागो यः षष्ठं तत् 'प्रक्रमादभ्यन्तरं तपः' परिकीर्तितमर्हदादिभिरुपदिष्टम्
★ आचार्योपाध्याये स्थविरे तपस्वि-ग्लान-शैक्षाणाम् ।
साधर्मिक-कुल-गण-सङ्घसङ्गतं तदिह कर्तव्यम् ॥१॥ १. यत् स्थिरमध्यवसानं तद् ध्यानं यच्चलं तद् चित्तमिति ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org