________________
७४२
उत्तरज्झयणाणि-२ तदेवाह
पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ ।
झाणं उस्सग्गो वि य अभितरओ तवो होइ ॥३०॥ अक्षरार्थः स्पष्टो भावार्थं सूत्रकृदेवाह
आलोयणारिहाईयं पायच्छित्तं तु दसविहं ।
जे भिक्खू वहई सम्मं पायच्छित्तं तमाहियं ॥३१॥ व्याख्या-आलोचनं स्वकृतपापप्रकाशनं प्रादुष्करणमित्यर्थः । तदर्हति योग्यं भवति तदालोचनाऽहं यत् पापमालोचनात एव शुध्यति 'आदिशब्दात् प्रतिक्रमणार्हादिपरिग्रहः' इह पुनर्विषय-विषयिणोरभेदोपचारादेवंविधपापविशुद्ध्युपायभूतान्यालोचनादीन्येवालोचनाऽर्हादिशब्देनोक्तानि तदेवंविधमालोचनाऽर्हमादिर्यस्य तदालोचनाऽर्हादिकं प्रायश्चित्तं 'तुरेवार्थे' दशविधमेव तदित्थम्
*"आलोयण-पेडिक्कमणे मीस-विवेगे तहा वि उस्सग्गे ।
तैव-छेय-मूल-अणवट्ठिया य पारंचिए चेव" ॥१॥ 'जे'इत्यार्षत्वाद् यद् भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥३१॥ विनयमाह
अब्भुट्ठाणं अंजलिकरणं तहेवासणदायणं ।
गुरुभत्ति भावसुस्सूसा विणओ एस वियाहिओ ॥३२॥ व्याख्या अभ्युत्थानमञ्जलिकरणं च प्रतीतं 'तथैवेति समुच्चये' 'आसणदायणं' ति सूत्रत्वादासनदानं गुरुभक्तिर्भावेनान्त:करणेन शुश्रूषा तदादेशं प्रति श्रोतुमिच्छा पर्युपासना वा विनय एष व्याख्यातः ॥३२॥ वैयावृत्त्यमाह
आयरियमाईए वेयावच्चंमि दसविहे ।
आसेवणं जहाथामं वेयावच्चं तमाहियं ॥३३॥ व्याख्या-आर्चायादिविषये व्यावृतभावो वैयावृत्त्यमुचिताहारादिसम्पादनं तस्मिन् दशविधे यदासेवनमेतद्विषयमनुष्ठानं यथास्थाम स्वसामर्थ्यानतिक्रमेण वैयावृत्त्वं
★ आलोचना-प्रतिक्रमणे मिश्र-विवेके तथाप्युत्सर्गः । तपः-छेद-मूलानवस्थितानि च पारञ्चितश्चैव ॥१||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org