________________
७४१
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम्
"वीरासण-उक्कुडगासणाइ-लोयाइओ य विन्नेओ ।
कायकिलेसो संसारवासनिव्वेयहेउ त्ति" ॥१॥ जीवस्य 'तुरेवार्थे' सुखावहान्येव मुक्तिसुखप्रापकत्वेनोग्राणि दुरनुष्ठेयतयोत्कटानि यथा धार्यन्ते सेव्यन्ते 'यतिभिरिति गम्यम्' कायक्लेशः स आख्यातः 'तथैवेति शेषः ॥२७॥ संलीनतामाह
एगंतमणावाए इत्थी-पसुविवज्जिए ।
सयणासणसेवणया विवित्तसयणासणं ॥२८॥ व्याख्या-एकान्ते जनानाकुले अनापाते स्त्र्याद्यापातरहिते स्त्री-पशुविवर्जिते तत्रैवावस्थितस्त्र्यादिरहिते 'शून्यागारादाविति भावः' शयनासनसेवनं शयनं शय्या आसनं पीठं तस्य सेवनम् 'प्राकृतत्वाल्लिङ्गव्यत्यय' तेन विविक्तशयनासनं नाम 'बाह्यं तप इति शेषः' 'उपलक्षणादेषणीयफलकादिग्रहणम्' अनेन विविक्तचर्या नाम संलीनतोक्ता, शेषसंलीनतोपलक्षणं चासौ प्राधान्याच्चास्या एवाभिधानं साक्षादिति प्राधान्यं चेन्द्रियसंलीनतोपकारित्वादस्याः । इयं च चतुर्धा
"इंदिय कसाय जोगे पैडच्च संलीणया मुणेयव्वा ।
तह जा विवित्तचरिया पन्नत्ता वीयरागेहि" ॥१॥ तत्रेन्द्रियसंलीनता श्रोत्रेन्द्रियादिभिः सुन्दरेतरेषु शब्दादिषु राग-द्वेषाकरणं १। कषायसंलीनता तदुदयनिरोध उदीर्णविफलीकरणं च २। योगसंलीनता च मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणम् ३ ॥२८॥ उक्तमर्थमुपसंहरन्नुत्तरार्धं च सम्बन्धयन्नाह
एसो बाहिरगतवो समासेण वियाहिओ ।
अभितरो तवो इत्तो वुच्छामि अणुपुव्वसो ॥२९॥ व्याख्या-'आर्षत्वात्' एतद् बाह्यं तपः समासेन सङ्केपेण व्याख्यातम् । ननु किं पुनरितो बाह्यात् तपसः फलम् ? उच्यते-नि:सङ्गता-शरीरलाघवेन्द्रियजय-संयमरक्षणादियोगाच्छुभध्यानावस्थितस्य कर्मनिर्जरणमिति । आभ्यन्तरं तप इतोऽनन्तरं वक्ष्याम्यानुपूर्येति ॥२९॥
१. वीरासनोत्कटासनादि-लोचादिकश्च विज्ञेयः ।
कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥१॥ ★ इन्द्रिय-कषाय-योगान् प्रतीत्य संलीनता ज्ञातव्या । तथा या विविक्तचर्या प्रज्ञप्ता वीतरागैः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org